SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ४९९ शास्त्रकारादिसंकेतितं सव्यभिचार अप्राप्तकाल नदी वृद्धि इत्यादिपदं पारिभाषिकम् (ग० शक्ति० पृ० ३)। पारिभाषिकी संज्ञा-(रूढनाम) उभयावृत्तिधर्मावच्छिन्नसंकेतवती संज्ञा । यथा आकाशडित्थादिः। सा हि द्वितयावृत्तिनैव शब्दादिना रूपेण तदाश्रयमभिधत्ते (श० प्र० श्लो० २१ टी० पृ० २५)। केचित्तु यत्रार्थे यन्नामाधुनिकसंकेतवत् तदेव तत्र पारिभाषिकम् । यथा पित्रादिभिः पुत्रादौ संकेतितं चैत्रादि । यथा वा शास्त्रकृद्भिः सिद्धथभावादौ संकेतितं पक्षतादिपदम् इत्याहुः (श० प्र० श्लो० २२ टी० पृ० २६)। अत्र केचिदित्यस्य ये जात्यवच्छिन्नसंकेतवतामपि चैत्रादिपदानां पारिभाषिक त्वमाहुः ते इत्यर्थः। पारिमाण्डल्यम्-अणुपरिमाणम् (मु० १ साधर्म्य० ) (प्रशस्त० पृ० १५)। पार्थिवः-१ पृथिवीकारणकः । यथा शरीरमस्मदादीनां पार्थिवम् (त० सं०) इत्यादौ। अत्रार्थे पृथिव्या विकारः पार्थिवः इति विग्रहो द्रष्टव्यः।२ राजा इति काव्यज्ञा आहुः। अत्रार्थे पृथिव्या ईश्वरः पार्थिवः ईति विग्रहो द्रष्टव्यः । पाशः-पाशश्चतुर्विधः मलकर्ममायारोधशक्तिभेदात् ( सर्व० सं० पृ० १८७ शै०)। पाषण्डी–बेदबाह्यागमविहितकर्मकारी ( पुरु० चि० पृ० २०५)। पिठरपाकवादी-(नैयायिकः ) घटपटादिः कार्यकारणसमुदायोपि पच्यन्ते न तु केवलं परमाणव एव पच्यन्ते इति यो मन्यते सः (वै० उ० ७१।६ )। यथा गौतमप्रधाना नैयायिकाः पिठरपाकवादिनः । एतन्मते च पूर्वघटनाशं विनैवावयविन्यवयवेषु परमाणुपर्यन्तेषु च पाकेनैव युगपद्रूपान्तराद्युत्पत्तिः इति ( त० दी० १ पृ० १३ )। अतिशयवेगवता तेजसा परमाणूनामभिघातसंयोगेपि तस्य नियमत आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकक्रियाजनकत्वे मानाभावेन अवयविन्यपि पाकस्वीकार उचितः । अत एव सोयं घटः इति प्रत्यभिज्ञा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy