SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ' पाये चात्यन्तिकोपवर्गो निःश्रेयसम् इति (वात्स्या० १।१।२ ) । इदमत्रा कूतम् । योगबलेनात्मतत्त्वसाक्षात्कारे सति तेन च सवासनमिध्याक्षाने ध्वस्ते तन्निबन्धनानां रागद्वेषमोहानां दोषाणामपायात्प्रवृत्तेरपाये तमिबन्धनस्य जन्मनः अपाये तन्निबन्धनस्य दुःखस्यापाय इति तावद्वस्तुगतिः ( वै० उ० ५।२।१८ )। द्रव्यादिषण्णां पदार्थानां साधर्म्यवैधाभ्यां - तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त० पृ० १)। [ख] शान्तः खल्वयं सर्वविप्रयोगः सर्वोपरमोपवर्गः ( वात्स्या० १।१।२ )। [ग] तदभावे संयोगाभावोप्रादुर्भावश्च मोक्षः (वै० ५।२।१८)। अस्यायमर्थः। तदभावे तस्यादृष्टस्याभावे सति । प्रारब्धेतरादृष्टानामात्मसाक्षात्कारेण प्रारब्धानां च भोगेन क्षये सतीति यावत् । संयोगाभावः देहप्रवाहसंबन्धस्य विच्छेदः । तदनन्तरं चाप्रादुर्भावः अर्थाहुःखस्यानुत्पत्तिः । देहरूपस्यादृष्टस्य च कारणस्य विरहात्। अतः तदानीमेव मोक्षोपवर्गः संभवतीति नापवर्गस्य शशविषाणसमानता इति भावः (वै० वि० ५।२।१८)।[५] अशेषविशेषगुणध्वंसावधिकदुःखप्रागभावः ( वै० उ० १।१।४)। [6] आत्यन्तिकी दुःखनिवृत्तिः (वै० उ० १।१।४ ) (गौ० वृ० १११।२) (सर्व० पृ० .. २४६ अक्ष०)(दि. १) (त० दी०) (त० को०)। अत्रात्यन्तिकत्वं च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । युगपदुत्पन्न- समानाधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा (वै० उ० १।१।४)। अथवा स्वसमानाधिकरणदुःखासमानकालीनत्वम् (दि. १) (त० दी० )। अत्र संसारकालीनस्य दुःखध्वंसस्य मोक्षत्ववारणाय कालीनान्तत्वं दुःखनिवृत्तिविशेषणम् । अस्मदीयदुःखसमानकालीनशुकमोक्षे अव्याप्तिवारणाय स्वसमानाधिकरणेति दुःखविशेषणं बोध्यम् (त० कौ० पृ० २२ ) ( म० प्र० १ पृ० ४ )। यद्वा निवर्त्य सजातीयस्य दुःखस्य पुनस्तत्रानुत्पादः ( सर्व० पृ० २४६ अक्ष० )। - [च] स्वसमानाधिकरणदुःखासमानकालीनदुःखध्वंसः (त० प्र०) - (गौ० वृ० १।१।२२ ) (म० प्र० ११४ ) ( त० कौ० पृ० २२)। - अत्र दुःखध्वंसो दुःखानुत्पत्तिः इत्यर्थः इति वैशेषिकाः ( त० व० )। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy