________________
२८४
न्यायकोशः। धर्मिण्यविद्यमानस्तद्भावः शौक्लयादिः इति । अत्र शौक्लयादिभावश्विप्रत्ययार्थः । तथा च प्रकृत्यर्थस्य शुक्लस्य पूर्वकालावच्छिन्नस्खनिष्ठाभावप्रतियोगित्वसहिताधेयत्वसंबन्धेन प्रत्ययार्थे शौक्लथे अन्वयः (ग० व्यु० का० ४ पृ० १०२-१०३ ) । अत्र स्वपदम् लक्षणया शुक्लवर्णविशिष्टशुक्लरूपप्रकृत्यर्थपरम् । [ख] शाब्दिकास्तु यत्र प्रकृतिरेव विकारसादृश्यमापद्यमाना विवक्ष्यते तत्र विप्रत्ययः । यथा संघीभवन्ति ब्राह्मणाः त्वद्भवति देवदत्त इत्यादावपि इत्याहुः ( ल० म०)।
छलम्— [क] वचनविघातोर्थविकल्पोपपत्त्या छलम् (गौ०१।२।१०)।
छलं निरनुयोज्यानुयोगरूपे निग्रहस्थाने एवान्तर्भवति नातिरिक्तः पदार्थः इति ज्ञेयम् ( गौ० १।१।१) । [ख] वक्तृतात्पर्याविषयार्थकल्पनेन दूषणाभिधानम् । अत्र तात्पर्याविषयत्वं च विशेष्ये विशेषणे संसर्गे वा विज्ञेयम् । यथाक्रममुदाहरणानि यथा नेपालादागतोयं नवकम्बलवत्त्वादित्यत्र नवसंख्यापरत्वकल्पनया असिद्ध्यभिधानम् । प्रमेयं धर्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्धयभिधानम् । वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् इति ( गौ० वृ० १।२।१०)। [ग] अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरं प्रकल्प्य दूषणाभिधानम् ( त० भा० पृ० ५०) (त० दी० पृ० ४३ ) । यथा नवकम्बलोयं देवदत्तः इति वाक्ये नूतनाभिप्रायेण प्रयुक्तस्य शब्दस्य नवत्वसंख्याविशिष्टमर्थान्तरमाशङ्कय कश्चिदूषयति । नास्य नव कम्बलाः सन्ति दरिद्रत्वात् । न ह्यस्य द्वित्वमपि संभाव्यते कुतो नव इति ( त० भा० पृ० ५०) ( नील० पृ० ४३ )। यथा वा नवपुत्रोयं देवदत्त इत्यत्र नूतनाभिप्रायेण प्रयुक्तनवशब्दस्य नवत्वसंख्याभिप्रायकत्वं प्रकल्प्य दूषणाभिधानं क्रियते एक एव पुत्रः कष्टेनानेन लब्धः कुतोस्य नवसंख्याकाः पुत्राः इति (प्र० प्र० पृ. २४)। [घ] शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुः ( सर्व० सं० पृ० २४० अक्ष० ) । छलं त्रिविधम् वाक्छलम् सामान्यच्छलम् उपचारच्छलं चेति
तस्य नवसंख्याकाः पुत्राः इति (
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org