SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ( त० भा० पृ० ४३ ) ( त० सं० ) । वाक्यैकदेश इत्यस्यार्थस्तु पूर्वस्मृत्यपेक्षोन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसंधीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यं तस्य भाग एकदेश इति ( न्या० बो०)। प्रतिज्ञादिभेदादवयवाः पञ्चेति न्यायमकरन्दे ( न्या० म० २।२४) उक्तम् ।। एते प्रतिज्ञादयः पश्चानुमानस्यावयवा इव अवयवाः । न तु समवायिकारणम् । शब्दस्याकाशसमवेतत्वात् (त० भा० पृ० ४३ )। केचित्तु (मीमांसकाः) उदाहरणान्तात्रय एवावयवा इत्याहुः । तन्न । तृतीयलिङ्गपरामर्शस्य व्याप्तिपक्षधर्मतावगाहिनोवयवान्तरादलाभात् । तदनभ्युपगमेपि पक्षधर्मताया अलाभात्। न च हेतुवचनादेव तदवगमः । तस्य को हेतुः इत्याकाङ्क्षायां प्रवृत्तत्वेन हेतुस्वरूपोत्थापकस्यातत्परत्वात् (चि० २ पृ० ८१ )। हेतूदाहरणोपनयनानि एते त्रयोवयवा इति केचित् मन्यन्ते ( वाच० ) । उदाहरणोपनयौ द्वाववयवाविति बौद्धा आहुः ( म० प्र० २ पृ० ३३)। रामानुजीयास्तु वदन्ति अस्माकं तु अनियमः । कचित्पश्चावयवो न्यायः । कचित्र्यवयवः कचिद्व्यवयवः । उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् । तावतैवानुमित्युपपत्तेश्च । मृदुमध्यमकठोरधियां विस्तरसंग्रहाभ्यां व्यवहार उपपद्यत इत्यनियम एवेति ( यतीन्द्र० दी. द्वि० अ० पृ० २१ )। जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदासश्चेति एते प्रतिज्ञादिसहिता दशावयवा इत्यतिप्राचीननैयायिका आहुः ( म०प्र० २ पृ० ३३ ) ( चि० प्र० पृ० ५२) ( गौ० वृ० १।१।३२.) (वात्स्या० १११।३२)। जिज्ञासादीनामर्थश्च तात्पर्यटीकायामुक्तः । प्रयोजनं हानोपादानोपेक्षाबुद्धयः । तत्प्रवर्तिका जिज्ञासा। तज्जनकः संशयः । प्रमाणानां जननसामर्थ्य शक्यप्राप्तिः । संशयव्युदासस्तर्कः ( गौ० वृ० १११।३२ ) ( वात्स्या० १।१।३२ ) । तत्र विप्रतिपत्तिर्जिज्ञासेति कश्चित् । मञ्जरीप्रकाशकारास्तु पदवाक्यप्रमाणानां ज्ञानजननप्रयोजकत्वं शक्यप्राप्तिः । कथायां यदुद्देश्यं तत्प्रयोजनमित्याहुः ( म० प्र० २ पृ० ३३ ) । एते जिज्ञासादयः पञ्च न न्यायावयवाः । अवयव१२ न्या० को. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy