SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ८८ न्यायकोशः। अवधिः-सम्यग्दर्शनादिगुणजनितक्षयोपशमनिमित्तमवच्छिन्नविषयं ज्ञान. मवधिः ( सर्व० सं० पृ० ६३ आहेत० )। अवधित्वम् -१ [क] संबन्धविशेषः। यथा वृक्षाद्विभजत इत्यादौ द्रव्यनिष्ठमवधित्वं पञ्चम्यर्थः ( दीधि० २ अव० पृ० १७५)। [ख] स्वरूपसंबन्धविशेषः । यथा वृक्षाद्विभजत इत्यादौ वृक्षादेरवधित्वात्मकमपादानत्वम् ( ग० व्यु० ५)।२ सीमात्वम् । तच्च स्वाभिधेयापेक्षया विभागाश्रयत्वम् । सीमा च त्रिविधा । कालकृता देशकृता बुद्धिकृता ।... च । तत्र प्रथमा मासात्पूर्व घट इत्यादौ । द्वितीया नद्या वनमित्यादौ । वनस्य नद्यपेक्षविभागाश्रयत्वात्तथात्वम् । तृतीया तु माथुराः पाटलिपुत्रेभ्य आध्यतरा इत्यादी ( वाच०)। अवधिमत्त्वम् – संबन्धविशेषः । यथा वृक्षाद्विभजते इत्यादौ धात्वर्थविभागे अवधिमत्त्वं पञ्चम्यर्थः । वृक्षात्पर्णं पततीत्यादौ च विभागे अवधिमत्त्वं संबन्धः ( दीधि० २ अव० पृ० १७५ )। अवयवः—(द्रव्यावयवः ) द्रव्यस्य समवायिकारणम् (त० दी० पृ० ४०)। यथा अवयवावयविनोः संबन्धः समवाय इत्यादौ कपालं घटस्यावयवः तन्तुश्च पटस्यावयवः । स चावयवः परमाणूनारभ्य कपालपर्यन्तं तन्तुपर्यन्तं चानेकधा। अवयवः—(न्यायावयवः) [क] साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्यावयवा उच्यन्ते । तेषु प्रमाणसमवाय आगमः प्रतिज्ञा । हेतुरनुमानम् । उदाहरणं प्रत्यक्षम् । उपनयनमुपमानम् । सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनमिति । सोयं परमो न्याय इति ( वात्स्या० १।१।१ )। [ख] अर्थसाधकभावात्तु प्रतिज्ञादयः साधकवाक्यस्य भागा एकदेशा अवयवा इति ( वात्स्या० १।१।३२ )। [ग] परार्थानुमानवाक्यैकदेशः ( सर्व० सं० पृ० २३८ अक्ष० )। ते चावयवाः पश्च । प्रतिज्ञा हेतुः उदाहरणम् उपनयः निगमनं चेति ( गौ० १११।३२)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy