SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ इन्द्रियेन्धनरोगे च रुर्भवे च प्रकीर्तितः । लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ॥३०॥ लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः । लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः ॥ ३१ ॥ मानसे वरुणे चैव लकारः सान्त्वनेऽपि च । विश्व पक्षी निगदितो गगनं परिकीर्तितम् ॥ ३२ ॥ शं सुखं शंकरः श्रेयः शश्च सीम्नि निगद्यते । शयने शः समाख्यातो हिंसायां शो निगद्यते ॥३३॥ षः कीर्तितो बुधैः श्रेष्ठे षश्च गम्भीरलोचने । उपसर्गे परोक्षे च षकारः परिकीर्तितः ॥ ३४ ॥ सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । साच लक्ष्मीबुधैः प्रोक्ता गौरी सा च स ईश्वरः ३५ हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः । हि: पद्मावरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥३६॥ क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैः क्षः शब्दशासने। क्षिा क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः ॥३७॥ आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् । एवमेकाक्षरं नामाभिधानं रचितं मया ॥ ३८ ॥ इत्येकाक्षरकोशः समाप्तः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy