________________
निघण्टुशेषः।
२७५ सुलोमशा भूतजटा, भूतना केशिकेत्यपि । सुरायां सुरभिर्दैत्या, गन्धाढ्यां गन्धमादनी ॥ २१६७ भूरिगन्धा गन्धवती, कुटी गन्धकटी च सा । प्रपौण्डरीके शौण्डर्य, सानुजं पौण्डरीयकम् ॥ २१६८ प्रपुण्डरीकं चक्षुष्यं, सत्पुष्पं सानुमानकम् । जतुकायां तु जतुका, जतुकृच्चक्रवर्तिनी ॥ २१६९ जन्तुका जतुकारी च, सहर्षा जननी जनी । मांसरोहायां विकसा, वृत्ता चर्मकंषा रुहा ॥ २१७० रक्तपाद्यां नमस्कारी, समङ्गाऽञ्जलिकारिका । गण्डकाली शमीपत्रा, रास्ता खदिरिका च सा॥ २१७१ तद्विशेषस्त्रिपादी स्यात्सुपादी हंसपादिका।... विषग्रन्थिहंसपदी, घृतमण्डलिकापि च ॥ .. २१७२ अथ स्वाज्जलपिप्पल्यां, शारदी शकुलादनी । ....... मत्स्यादनी मत्स्यगन्धा, लागली तोयपिप्पली ॥ २१७३ शिवमल्ल्यां पाशुपतः, सुव्रतो वसुको वुकः । . कुलपुष्पः किण्वमूलः, पाण्डुरोगप्रियः कुलः ॥ २१७४ अतिविषायां तु विश्वा, भङ्गुरा श्वेतकन्दिका। उपविषा श्यामकन्दा, शृङ्गी प्रतिविषारुणा ॥ . २१७५ मेदायां स्यान्मणिच्छिद्रा, मधुरा शल्यपर्ण्यपि । .. महामेदायां तु वसुच्छिद्रा देवमणिर्वसुः ॥ २१७६ इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे द्वितीयो गुल्मकाण्डः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org