SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ निघण्टुशेषः। पाटल्यां पाटला स्थाल्यमोघा तोयाधिवासिनी । वसन्तकामयोर्दूती, कुम्भिका कालवृन्तिका ॥ १९०८ अन्यस्यां तत्र तु श्वेता, पाटला काष्ठपाटला । शीतला श्वेतकुम्भीका, कुबेराक्षी फलेरुहा ॥ १९०९ अगुरावगुरुर्लोहं, वंशिकं विश्वरूपकम् । कृमिजं प्रवरं राजार्ह, स्याद् योगजमनार्यकम् ॥ १९१० मल्लिगन्धेऽत्र मङ्गल्या, कृष्णे तु काकतुण्डकः । । श्रीखण्डे स्यान्मलयजं, चन्दनं श्वेतचन्दनम् ॥ १९११ गोशीर्षकं गन्धसारं, भद्रश्रीस्तैलपर्णिकम् ।। फलकी सुरभिः सारं, महार्ह रोहणोद्भवम् ॥ १९१२ अथ बर्बरके श्वेतं, निर्गन्धं बर्बरोद्भवम् । स्याद्रक्तचन्दने क्षुद्रचन्दनं भास्करप्रियम् ॥ १९१३ ताम्रसारं रक्तसारं, लोहितं हरिचन्दनम् । कुचन्दने तु पत्राङ्गं, पत्त(त्र)ङ्गं पट्टरञ्जनम् ॥ १९१४ सुरङ्गकं रक्तकाष्ठं, पत्तूरं तिलपर्णिका । अथ द्रुमोत्पलव्याधः, परिव्याधः सुगन्धकः ॥ १९१५ निर्गन्धेऽस्मिन् कर्णिकारो, निषीथः पीतपुष्पकः । पुंनागे तु महानागः, केसरो रक्तकेसरः ॥ १९१६ देववल्लभकुम्भीको, तुङ्गः पुरुषनामकः । अथागस्त्ये वङ्गसेनः, शुकनासो मुनिद्रुमः ॥ १९१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy