________________
२३४ नाममालाशिलोछे नरकाण्डः आतिथ्योऽप्यतिथौ तुल्येऽभिजो गोत्रे तु सन्ततिः । महेला योषितौ च स्त्री, तरुणी युवतीत्यपि ॥१७८९॥ सुवासिनी चरिण्टी च, चिरण्टी च चरण्ट्यपि । वधूट्यां पत्न्यां करात्ती, गेहिनी सहधर्मिणी ॥१७९०॥ सधर्मचारिणी चापि, स्नुषायां तु वधट्यपि । प्रेमवत्यैपि कान्तायां, प्राणिग्रहो' विवोढरि ॥१७९१॥ परिणेतोपैयन्ता च, यौतके दाय इत्यपि । दिधीपूर्दिधिषींवत्पत्नी जीवत्पतिः समे ॥१७९२॥ तुल्ये अवीरीनिर्वीरे', श्रवणोश्रवणे तथा । रण्डोपि विधवा पुष्पवती स्यात्पुष्पितापि च ॥ १७९३॥ पुष्पे कुसुममप्युक्तं, पशुधर्मोऽपि मोहने । सहोदरे सगर्भोऽपि, स्यादग्रजवदनिमः ॥१७९४॥ शण्ठः शठः पण्डुरैपि, क्लीबो माता जनित्र्यपि। चिहुरा अपि केशाः स्युः, कर्णः शब्दाहोऽपि च ॥१५॥ नेत्रं विलोचनमपि, शृक्कणी सृक्कणी अपि । दाडिको द्राढिकापि स्वास्कपोणिस्तु कफोणिवत् IR६॥ कूपरे कूपरः सिंहतले संहतलोऽपि च । चलुकोऽपि' चलौ मुष्के, स्यादाण्ड: पेलकोऽपि च॥९७॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org