SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ( १२६ ) कालेयम् (साम्) ] कार्य: देवा ह वाऽ एतं वनस्पतिषु गक्षोनं ददृशुर्यत्कार्मर्य्यम् . (भद्रपर्णीति सायणः)। श० ३।४।१ । १६ ॥ , ते (देवाः) एत रक्षोहणं वनस्पतिमपश्यन्कार्मर्यम् । श० ७।४।१।३७॥ कालकाः (असुराः) कालका वै नामासुरा आसन् । ते सुवर्गाय लोकायाग्निमचिन्वन्त। पुरुष इष्टकामुपादधात्पुरुष इष्टकां । स इन्द्रो ब्राह्मणो ब्रुवाण इष्टकामुपाधत्त । एषा मे चित्रा नामेति। ते सुवर्गलोकमाप्रारोहन् । स इन्द्र इष्टकामावृहत् । ते ऽवाकीर्यन्त । ये ऽवाकीर्यन्त । त ऊर्णनाभयो ऽभवन् । द्वावुदपततां तौ दिव्यौ श्वानावभवताम् ( कालकाजा वा असरा इष्टका अचिन्वत दिवमारोक्ष्यामा इति तानिन्द्रो ब्राह्मणो ब्रुवाण उपत्स एतामिष्टकामप्युपाधत्त प्रथमा इव दिवमाक्रमन्ताथ स तामावृहत्ते ऽसुराः पापीयांसो भवन्तो ऽपाभ्रंशन्त या उत्तमा प्रास्तां तौ यमश्वा अभवतां ये ऽधरे त ऊर्णावाभयः । -मैत्रायणीसंहितायाम् १ । ६ । ६ ॥ कालकाजा वै नामासुरा श्रासंस्त इष्टका अचिन्वत तदिन्द्र इष्टकामप्युपाधत्त तेषां मिथुनौ दिवमाक्रमेतां ततस्तामावृहत्ते ऽवाकीर्यन्त ता एतौ दिव्यौ श्वानौ । -कठसंहितायाम् = । १॥ [अहमिन्द्रः] पृथिव्यां कालकाजान् [अतृणम्हिंसितवान् ] ॥ -शङ्करानन्दोयटीकायुतायां कौपीतकिब्राह्मणोपनिषदि ३ । १ ॥) । ते. १।१। २।४-६॥ कालयम् ( साम) (देवाः) तेन ( कालेयेन साना ) एनान् ( असुरान् ) एभ्यो लोकेभ्यो ऽकालयन्त यदकालयन्त तस्मात्का. लेयम् । तां०८।३।१॥ यत्कालेयं भवति तृतीयसवनम्य सन्तन्यै । तां० । ३।५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy