SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [ अग्निष्ठा ( १२ ) अग्निष्टोमः ब्रह्मवर्चसं वा अग्निष्टोमः । तै० २।७।१।१॥ आत्मा वा अग्निष्टोमः । तां० १९ । । । ११ ॥ वीर्य वा अग्निष्टोमः । तां०४।५। २१ ॥ प्रतिष्ठा वा अग्निष्टोमः । कौ० २५ । १४ ॥ त्रिवृदग्निष्टोमः । ष०३।९॥ पुरुषसंमितो वाऽअग्निष्ठोमः । श०३।९।३।३२॥ ज्योतिर्वा अग्निष्टोमः । कौ० २५ । ९॥ ज्योतिवी एषोऽग्निष्टोमो ज्योतिष्मन्तं पुण्यं लोकञ्जयति य एवं विद्वानेतेन यजते । तां० १९ । ११ । ११ ॥ एषा वाव यज्ञस्य मात्रा यदग्निष्टोमः । तां० २०।११।८॥ स वा एष संवत्सर एव यदग्निष्टोमश्चतुर्विशत्यर्धमासो वै संवत्सरश्चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि, तं यथा समुद्रं स्रोत्या एवं सर्वे यशक्रतवोऽपियति । अग्निष्टोमो वै संवत्सरः। ऐ०४।१२।। द्वादशाग्निष्टोमस्य स्तोत्राणि । तै० १।२।२।१॥ तां०४।२।१२॥ ज्येष्ठयज्ञो वा एष यदग्निष्टोमः । तां० ६ । ३ । ८ ॥ एष वाव यज्ञः ( = "मुख्यो यज्ञः" इति सायणः ) यदग्निप्टोमः, एकस्मा अन्यो यज्ञः कामायाहियते सर्वेभ्योऽग्निटोमः । तां०६।३।१-२॥ अग्निष्टोमो वै यज्ञानां मुखम् ॥ कौ० १९ । ८॥ यज्ञमुखं वा अग्निष्टोमः । तै० १ । ८।७।१॥ तां. १८।८।१॥ अग्निष्टोमेन वै देवा इमं लोकं ( भूलोकं) अभ्यजयन् । तां० ९।२।९॥२०।१।३॥ इममेव लोक पशुबन्धेनाभिजयति । अथो अग्निष्टोमेन । तै०३।११। ५। ६॥ एष वै यज्ञः स्वग्र्यो यदग्निष्टोमः । तां०४।२।११ ॥ अग्निष्ठा यजमानो वाऽअग्निष्ठा । श०३।७।१ । १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy