SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशे १७५. दधिमथनविलोललोलहगवेणिदम्भादयमदयमनङ्गो विश्वविश्वकजेता । . भवपरिभवकोपत्यक्तबाणः 'कृपाणश्रममिव दिवसादौ व्यक्तशक्तिर्व्यनक्ति ॥१॥ इत्यत्र वेण्याः कृपाणत्वेन वर्णनाद 'वेणीकृपाणोऽमर' इति विरुदं कविवृन्दाल्लब्धम् । दीपिकाकालिदासवत्, घण्टामाघवच्च । कवित्वप्रसिद्धेश्च महाराष्ट्रादिराजेन्द्राणां पूजा उपतस्थिरे । 5६७३) तदा 'वीसलदेवो राजा गूर्जराधिपतिर्धवलकके राज्यं शास्ति । तेनामरकवेर्गुणग्रामः श्रुतः । ठक्कुरं वइजलं प्रधानं प्रेष्य प्रातराहूतः कवीन्द्रः । आसनादिप्रतिपत्तिः कृता। सभा महती। अमरेण पठितम्१७६. वीक्ष्यैतद्भुजविक्रमक्रमचमत्कारं नकारं मयि, प्रेम्णो नूनमियं करिष्यति गुणग्रामैकगृह्याशया । श्रीमद्वीसलदेव ! देवरमणीवृन्दे त्वदायोधनप्रेक्षाप्रक्षुभिते विमुञ्चति परीरम्भान्न रम्भा हरिः॥२॥ 10 १७७. त्वत्प्रारब्धप्रचण्डप्रधननिधनितारातिवीरातिरेकक्रीडत्कीलालकुल्यावलिभिरलमत स्पन्दमाकन्दमुर्वी । दम्भोलिस्तम्भभास्वद्भुज ! भुजगंजगद्भर्तुराभर्तुरेनां तेनायं मूर्ध्नि रत्नद्युतिततिमिषतः शोभते शोणभावः ॥ ३॥ रञ्जिता सभा, प्रीणितः पृथ्वीपालः । ततो राज्ञा प्रोक्तम्-यूयं कवीन्द्राः श्रूयध्वे । अमरोऽभिधत्ते-सत्यमेव, यदि गवेषयति देवः । ततो नृपेण सोमेश्वरदेवे दृष्टिः सञ्चारिता । ततः सोमेश्वरेण समस्याऽर्पिता । यथा ___शीर्षाणां सैव वन्ध्या मम नवतिरभूलोचनानामशीतिः' । अमरेण सद्यः पूरिता१७८. कैषा भूषा शिरोऽक्ष्णां तव भुजगपते ! रेखयामास भूत्या द्यूते मन्मूर्ध्नि शम्भुः सदशनवशतान(९१०)क्षपातान् विजित्य । गौरी त्वानञ्ज दृष्टीर्जितनखनवभू(१९२०)स्तद्विशेषात्तदित्थं शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः ॥ ४॥ अत्र शिरोऽक्ष्णामिति शिरसा युक्तानामक्षणामिति मध्यमपदलोपी समासः कार्यः । इन्द्रे तु प्राण्यङ्गत्वादेकत्वं प्राप्नोति । ६७४) ततो वामनस्थलीयकविसोमादित्येन समस्या दत्ता ___'धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः' । 25. अमरेणोक्तम् १७९. भवस्याभूद् भाले हिमकरकला ऽग्रे गिरिसुताललाटस्याश्लेषे हरिणमदपुण्ड्रप्रतिकृतिः । कपईस्तत्प्रान्ते यदमरसरित्तत्र तदहो! धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥५॥ ६७५) ततः कृष्णनगरवास्तव्येन कमलादित्येन समस्या वितीर्णा . 'मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम्' । 30 अमरेण पुपूरे १८०. तटविपिनविहारोच्छृङ्खलं यत्र यादोमशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् ।। बत बक! न कदाचित्किं श्रुतोऽप्येष वार्द्धिः प्रतनुतिमिनि तल्ले कापि गच्छ क्षणेन ॥ ६ ॥ ६७६) अथ वीसलनगरीयेण नानाकेन समस्या विश्राणिता ___ 'गीतं न गायतितरां युवतिर्निशासु' । - 1 कृपाणः। 2P लब्धममरेण । 3A प्रसिद्धिश्च । 4 AC विश्वल। 5 P .योधने प्रेक्ष्य । GA भुजयुगलजगद् P भुजगभुजजगद् । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy