SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः 'श्रीमाणिक्यः' 'कुमुदविजय'श्वेत्युपाध्यायवो. पन्यासौ द्वौ बहुगुणयुतौ भक्ति'ते-'पद्माभिधौ च । अत्युत्साहैस्सह शुभकृपासिन्धुवद्भ्यो भवद्भ्यो १ लब्ध्वाऽऽचार्याह्वयमुपदवीं धर्मभ्राजो विरेजुः ॥ ८२ ॥ 'आनन्दस्याम्बुनिधिरिति यद् वर्तते नाम सत्यं, ... प्रत्यक्षम्तत् भुवि विदधती किं न जैनी प्रजाऽभूत् । तस्मात् सूरीन झगिति 'नगरे जामपूर्वे'ऽपि सङ्घः, प्रार्थ प्रार्थ कथमपि. चतुर्मासवासाय निन्ये ॥ ८३ ॥ अझैः कैश्चित् श्रुतकथितसिद्धान्तवाचा विरुद्ध, प्रोक्तं वृद्धिक्षयविषयकं पर्वतिथ्याः मतं यत् । उग्रं तत्खण्डनमथ कृतं शास्त्रदृष्टयापि लोकं . बोधित्वाऽरं नवमतवतो लजितास्थान प्रचक्रः ॥ ८४ ॥ तत्रैवाग्ने जलदसमये स्थापितो 'देवबाग लक्ष्म्या'नाम्नाऽऽश्रमवर उपादिश्य लोकः सुखेन । पश्चाद् भक्तो 'नगरधनपः पोपटाहस्सुभक्त्या, . सौराष्ट्रीयाखिलजिनपसत्तीर्थसंस्पर्शनाय ॥ ८५ ॥ सङ्घ नीत्वाचरणचलनं षडिसम्पालनोत्कं, सानन्दोऽगात् , सकलमपि तद्वर्णनं चारुरीत्या। 'तीर्थाः सौराष्ट्रविषयभवाः सङ्घयात्रा च' नाम्नाख्याते ग्रन्थे लसति तदिवाऽऽयोक्तुमाकेतयन्नन् ॥ ८६ ।। (संदानितकम् ) १ श्रीमाणिक्यसागरोपाध्याय श्रीकुमुद विजयोगध्याय-श्रीभक्तिविजयपन्यास-श्रीपद्मविजयपन्यासेभ्य आचार्यपदप्रदानसूचकमिदं पूर्वाद्धम् । २ जामनगरे। ३ आनन्दसागरसूरीश्वरेण सहेत्यर्थः । ४ 'सौराष्ट्रनां तीर्थो भने संधयात्रा' इत्याख्या थे इति भावः । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy