SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६ श्रीजिनेश्वरसूरिचरितवर्णन । [क० परिशिष्ट अथ द्वितीयपक्षः कक्षीक्रियते । अत्रापि पृच्छामः- कुतो दोषादधुनैव यतीनां परगृहवासो दूष्यते ! 'स्त्रीसंसक्त्यादे'रिति चेत् न, अस्य दोषस्य तदानीमपि भावात् । न च तदापि तत्संसक्तिरहितवसतिपरिग्रहे तदलामे वाऽभिहितयतनां विहायान्यः समाधिः । तथा च स इदानीमप्याश्रीयताम् , न्यायस्य समानत्वात् । एवं च उक्तयतनाविधायिनां ख्यादिसंसक्तवसताविदानीमपि ब्रह्मचर्यगुप्त्यादयो दोषाः परास्ताः । यदपि 'तस्मादिदानीं जिनगृहवास एव साधूनां संगतः प्रतिभाती'त्यादि, 'यत्यर्थ क्रियमाणे हि तस्मिन्नाधाकर्मादिदोषः प्रादुर्भवेद्' इत्यन्तमुक्तम् , तदप्यधिकतरदोषकवलितत्वेन चौरचरटत्रासोल्लासात् पलायमानस्यात्यन्तरौद्राकारसमग्रसनरसिकरसनापिशाचाक्रान्तविकटाटवीसंकटनिपातकल्पनामुपकल्पयति । तथा हि, परगृहे कदाचिदाधाकर्माङ्गनासंसक्तिप्रभृतिदोषदर्शनात् तत्त्यागेन जिनसदनान्तर्निवसतां सतां शीलधनवतां साधूनां प्रत्यहं भगवत्पुरतः स्फारशृङ्गारोदाररम्भातिलोत्तमावतारतारमधुरखरगायन्नृत्यद्वार विलासिनीसाजभङ्गसानङ्गापाङ्गनिरीक्षणक्षणदाकराकरवदनकुन्दकलिकाविशदरदनमसृणपङ्काहीनपीनस्तनघटपृथुलश्रोणीत. टप्रलोकनादिवातसंधुक्षणेनेदानी तथाविधसत्त्वविवेकविकलसैक्ष्यादिमुनीनां कथं सातिरेका मन्मथविकाराङ्गारा न दीप्येरन् ? ततश्चेदमुपस्थितम् - यत्रोभयोः समो दोषः परिहारश्च तादृशः । नैकपर्यनुयोज्यः स्यात् तादृश्यार्थ विचारणे ॥ प्रत्युतायं विशेषोऽस्मत्पक्षे स्त्रीसंसक्तपरगृहे कदाचिद् वसतामप्युक्तदोषासंभवः, तत्र यतनाभिधानात् । भवत्पक्षे तु चैत्यवासस्य सर्वथा वर्जनीयत्वेन क्वचिदपि यतनाऽनभिधानादेतदोषपोषः केन वार्यते । न च वक्तव्यं गृहिगृहाणां संकीर्णत्वाद् यतनाकरणेऽपि नोक्तदोषमोषः कर्तुं शक्यत इति । प्रमाणयुक्तस्यैव गृहिमन्दिरस्य प्रायेण यत्याश्रयणीयत्वेनाभिधानात् , तत्र चोक्तदोषपरिहारस्य सुशकत्वात् । अतएव गृहिणा सकलगृहसमर्पणेऽपि यतीनां तस्यान्यस्य वा दौर्मनस्यनिरासाय मितावग्रहाध्यासनं सूत्रे प्रत्यपादि । यदुक्तम् - एवमम्ह वि जं जोग्गं तं देयं जइ भणिज इय भणिओ। चली खद्रा य मम सेसमणनाया तब्भ मर॥ अणुनाए वि सव्वम्मि उग्गहे घरसामिणा। तहावि सीम छंदंति साहू तप्पियकारिणो ॥ झाणट्ठा य भायणधोवणट्ठा दुण्हट्टया अत्थणहे उयं वा । मिउग्गहं चेव अहिट्टयंति मासो व अन्नो व करिज मत्तुं ति ॥ प्रमाणयुक्तपरगृहालाभे तु संकीर्णेऽपि तस्मिन् यतनया वसता न दोषः । यदुक्तम् - नत्थि उ पमाणजुत्ता खुडलियाए वसंति जयणाए ति । किं च जिनगृहवाससमर्थनमात्मनो महानर्थकारित्वान्न चारिमाणमञ्चति । सिद्धान्ते चैत्यान्तर्वासस्य मुनीनामत्यन्ताशातनाहेतुत्वेनोक्तत्वात् । तस्याश्वाल्पीयस्या अप्यनन्तभवामयवृद्धिकारणत्वेनापथ्यासेवनतुल्यत्वात् । तथा चागमः - दुन्भिग्गंधमलस्सावि तणुरप्पेस अण्हाणिया। उभओ बाहओ चेव तेण ठंति न चेइए ॥ जइ वि न आहाकम्मं भत्तिकयं तह वि वजियं तेहि । भत्ती खलु होइ कह इहरा आसायणा परमा ॥ आसायणमिच्छत्तं आसायणवजणा य सम्मत्तं । आसायणा निमित्तं कुव्वइ दीहं च संसारं ॥ तस्मात् कथंचिदाधाकर्मिकवसतिनिवासस्यापि सिद्धान्ते प्रतिपादितत्वात् , जिनभवननिवासस्य चात्यन्तदूषितत्वाद् वसतिवासः साधूनामुपपन्न इति । तथा च प्रयोगः- यतीनां परगृहवासो विधेयः, निःसंगताऽभिव्यञ्जकत्वात् , शुद्धोञ्छग्रहणावदिति । तथा, यदपि च, 'किं च चैत्यवासमन्तरेणे'त्याविना तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy