________________
क. परिशिष्ट ]
गणधरसार्द्धशतकप्रकरणान्तर्गत पं० जिनेश्वरः - 'अष्टादशपापस्थानविरता अष्टादशसंख्या वयं वर्तामहे ।' पुरोहितः - खगतम् , 'अहो! यादृशाः
त्यक्तदाराः सदाचारा मुक्तभोगा जितेन्द्रियाः। गुरवो यतयो नित्यं सर्वजीवाभयप्रदाः ॥ इति दमाध्याये प्रतिपादिताः सद्गुरवस्तादृशा एते महात्मानः । तदेतान् खगृह एवानाय्य निर्धूतरजसः, तच्चरणपूतरजसा पुनामि स्वगृहाङ्गणम् । भवामि सततमेतेषां प्रत्यक्षपुण्यपुञ्जानामीक्षणेनेक्षणसाफल्यभागिति । पुनः प्रकाशम् , -- 'भो महासत्त्वाः! चतुःशालविशालमदीयगृहे एकस्मिन् द्वारे प्रविश्य एकस्यां शालायां तिरस्करिणीं दत्त्वा तिष्ठथ सर्वेऽपि यूयं सुखेन । भिक्षावेलायां मदीयमानुषेऽग्रीकृते ब्राह्मणगृहेषु भिक्षयाऽपि न किमपि खूणं भवतां भविष्यति ।' ततः पण्डितजिनेश्वरगणिः-'केऽन्ये भवभ्योऽप्यौचितीचारचेतसः' इति भणन् ,
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहितासक्ता रत्नदीपा इवोत्तमाः ॥ इति च पठन् , गतः खगुरुसमीपे । निवेदितः समस्तोऽपि वृत्तान्तः । ततः समीचीनमेतदिति विचिन्त्य तेऽपि तथैव सर्व कुर्वन्ति ।
६४) एवं च तत्र स्थितानां स्वधर्मकर्मनिरतानां पत्तनमध्ये समुच्छलिता वार्ता- यदुत वसतिपाला यतयः समायाताः सन्ति । श्रुता च चैत्यगृहनिवासिभिः साध्वाभासैः । ततस्तैर्मिलित्वा आलोचितम् - 'यदुताहो! न शोभनमेतद् यदेते वसतिपाला अनाजग्मुः । यतः- “वयं सुविहिताः सदैवागमोक्तक्रियाकारिणश्चैत्यवासपरिहारिणः, एते पुनः खच्छन्दचारिणः, सिद्धान्तोत्तीर्णभवार्णवपातकारिदेवद्रव्यापहारिणः, सदैकत्र वासिनः, कामोन्मादनताम्बूलाश्चान्ताखादनसचित्रविचित्रान्दोलनपल्यङ्कगण्डोपधानगल्लमसूरिकादिशृङ्गारचेष्टाविशेषप्रकटनेन नटविटादिवद् महाविलासिनः" - इत्याद्युल्लपनपूर्वकमात्मानं बकवृत्त्या परमधार्मिकत्वेन जनमध्ये प्रतिष्ठापयिष्यन्ति; अस्माँश्च सर्वत्रानाचारिण इति कृत्वा व्यवस्थापयिष्यन्ति । ततो यावदेष कोमल एव व्याधिस्तावच्चोच्छिद्यते' - इत्यात्मशङ्कितैस्तैरालोच्य चिन्तित उपायः । यथा- 'वयं तावदधिकारितनयानध्यापयामः । ते चामत्कथितकारिण एव । ततस्तानावयं तन्मुखेन दूषणमेषामारोप्यैतानुच्छेदयामः ।' ततस्तैराहूता अधिकारिपुत्राः स्वच्छात्राः । प्रलोभिताः खजूरद्राक्षावर्षोपलादिप्रदानेन । भणिताश्च युष्माभिर्लोकमध्ये एवं भणनीयम् - 'यदुतैते केचन परदेशात् श्वेताम्बररूपेण श्रीदुर्लभराजराज्यच्छिद्रान्वेषिणश्चराः समागताः सन्ति ।' कृतं च तत् तथैव तैः । ततः सा वार्तोदकान्तस्तैलबिन्दुरिव प्रसृता पत्तनमध्ये । प्रसरन्ती च राजसभायामपि प्राप्ता । ततो दुर्लभराजमहीभुजाऽभिहितम् - 'अहो! यद्येवंविधाः क्षुद्राः कापटिकाः श्वेतपटाः केऽप्याजग्मुः । ततस्तेषामाश्रयः केन दत्तः ।' तत्रस्थेनैव केनाप्युक्तम् - 'देव ! तवैव गुरुणा ते खगृहे धारिताः।' ततोः दुर्लभराजेनोक्तम् - 'आकारय तम् ।' आकारितः पुरोहितः, भणितश्च - 'भो शान्तिकर्तः ! श्वेताम्बररूपधारिणो ये हेरिका अत्र आगतास्तेषां किमिति त्वया स्थानमदायि? ।' पुरोहितेनोक्तम् - 'केनेदं दूषणमुद्भावितम् – यत् हेरिकास्ते ? । किं बहुना यद्येषां दूषणमस्ति, तदा पारुत्थलक्षेणैषा कर्पटिका प्रक्षिप्ता । पुनर्ययेषां मद्गृहवर्तिनां मुनीनां मध्ये दूषणगन्धोऽप्यस्ति तदोत्पाटयत्वेतां तदूषणवक्तारः ?' - इत्युक्त्वा स्थितः पुरोहितः। ततः सन्ति तत्रामात्यश्रेष्ठिप्रमुखाः प्रभूतास्तद्भक्ताः प्रधानपुरुषाः।' परं न कश्चिदुत्पाटयति कर्पटिकाम् । को नाम परकीयां रुष्टां गृह्णाति ? । ततो भणितं राज्ञः पुरः पुरोहितेन- 'देव!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org