SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीजिनेश्वर सुरिचरितवर्णन । [क० परिशिष्ट ततः सुगुरुचरणाम्भोजान्यभिवन्द्य गतस्तत्र । तच्चोचैर्गृहं श्रीदुर्लभराजमही वल्लभसत्कपुरोहितसंबन्धि वर्त्तते । तदानीं च पुरोहितः खशरीराभ्यङ्गं कारयंस्तिष्ठति । पण्डितजिनेश्वरेण तस्यामतः स्थित्वा पठितं यथा - १० सर्ग -स्थिति-क्षयकृतो विशेषवृषसंस्थिताः । श्रिये वः सन्तु विप्रेन्द्र ! ब्रह्म- श्रीधर - शङ्कराः ॥ इत्याशीर्वादप्रसन्नमानसः स राजपुरोधाश्चिन्तयति - अहो ! विचक्षणोऽयं व्रती कश्चित् । अत्रान्तरे मन्दिरान्तर्वर्त्तिविविक्तशालाप्रदेशे - 'ॐ ऋषभं पवित्रं पुरुहूतमध्वरं यज्ञं महेशम्' इत्यादिवेदवाक्यपरावर्त्तनामन्यथा कुर्वतइछात्राञ् श्रुत्वोक्तं पण्डित जिनेश्वरेण - 'मेत्थं वेदपदानोच्चारिष्ट, किं तत्थम्' इत्येतदाकर्ण्य विस्मयमानसः पुरोधाः कोमलगिरा पप्रच्छ - 'नन्वनधीतं नहि कश्चिन्नाम शुद्धमशुद्धं वेदमिति परिच्छिनत्ति । ततो वैपरीत्येन वेदवाक्यपरावर्त्तनं युष्माभिर्वेदपाठानधिकारिभिः शूद्वैः कथमवागामि ? ।' 1 - जिनेश्वर पण्डितेनोक्तम् – 'महाभाग्यशेखर ! द्विजेश्वर ! यथा आत्थ यूयम्, तथैवैतत् । नहि शूद्राणां वेदपाठाधिकारः । किन्तु नहि वयं शूद्राः । किं तर्हि, वेदचतुष्टयाध्यायिनो विप्रजातिनः । तथा तपसा तापसो ज्ञेयो ब्रह्मचर्येण ब्राह्मणः । पापानि परिहरंश्चैव परिव्राजोऽभिधीयते ॥ इति पूर्वर्षिप्रतिपादितब्रह्मचरणलक्षणा एव वयम् ।' पुरोहितः सानन्दम् - 'भो ! यतिपुङ्गवाः ! कुतो देशाद् यूयमत्रागताः ? ।' पण्डितजिनेश्वरगणिः – 'ढिल्लिकापुरीतिलकाङ्कितात् ।' - पुरोधाः - 'किं तद् धन्यं धरणीतलमेतस्मिन् पत्तने यदलञ्चक्रे चक्रादिलक्षणोपलक्षितं युष्मादृशमुनिराज - हंसचरणन्यासैः ? ।' पं० जिनेश्वर :- 'विशालतपनातपशालायां वयं स्थिताः स्मः ।' पुरोहितः - 'किमिति तत्रावस्थिताः ? ।' पं० जिनेश्वरः - 'पुरोहित मिश्राः ! शेषस्थानानां विरोधिभिरवष्टब्धत्वात् ।' पुरोहितः - 'भवद्दशानामपि शान्तात्मनामकृतागसां केचिद् विपक्षाः सन्ति ? ।' पं० जिनेश्वरः - द्विजोत्तम ! मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः । उत्पद्यन्ते त्रयः पक्षा मित्रोदासीन - शत्रवः ॥ पुरोहितः - ' अहह ! चन्दनशीतलानामपि युष्मादृशानां पापाः केचिदप्रियकारिणः ?' - इति क्षणं विषद्य, पुनः 'अथ के पुनस्ते दुर्विधेया मया ज्ञेयाः ? ।' पं० जिनेश्वरः - 'महात्मन् ! अस्तु कल्याणमेषाम् । किं नस्तेषां चर्चाकदर्थनेन ।' पुरोहितः - स्वगतम्, अह, त एते सुकृतात्मानः परदोषपराङ्मुखाः । परोपतापनिर्मुक्ताः कीर्त्यन्ते यत्र साधवः ॥ ततः कथमेते महात्मानः स्वविरोधिनां नामोत्कीर्त्तनं करिष्यन्ति ? किञ्च ममापि तेषां दुरात्मनां नामश्रवणमश्रेयस्करम् । तद्भवत्वेवमन्यत् पृच्छामीति । प्रकाशम् - " एतावन्त एव यूयमागताः स्थ किमुतान्येऽपि केचिन्मुनयः सन्ति ? | पं० जिनेश्वरः – ‘येषां वयं शिष्यलेशास्ते आसते खमनीषा विशेष विक्षिप्तसुरगुरवस्त्रि जगद्गुरवोऽस्मद्गुरवः परित्यक्तपरिग्रहगृहिणीधनधान्यखजनस्नेहसंबन्ध भूरयः सुगृहीतनामधेयाः श्रीवर्द्धमानसूरयः ।' पुरोधाः - सविस्मयम्, 'सर्वेऽपि कियन्तो भवन्तः ।' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy