SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १४ १० [ देवाधिदेवकाण्डः-१ तृतीयस्वरादिः । १७ अव्याहतस्वैरगतित्वात्, महाबलवत्त्वाद्वा अनिल इव अनिलः । १८ यशांसि धरति यशोधरः । अच् । १९ चतुष्षष्टिसुरेन्द्रैः कृतोऽर्घः पूजाऽस्य कृतार्घः, रेफकवर्गचतुर्थान्त: । 'अर्घ पूजाविधौ मूल्ये '[अनेकार्थसङ्ग्रह : २।५१] ४० इत्यनेकार्थः। २० जिनश्चासौ ईश्वरश्च जिनेश्वरः ॥५२॥ २१ शुद्धा निर्मला मतिरस्य शुद्धमतिः । २२ शिवं क्षेमं करोति शिवकरः । २३ स्यन्दते सरसवचतनपियूषमिति स्यन्दनः । 'स्यन्दू प्रस्रवणे' (भ्वा.आ. वे.), नन्द्यादित्वाद् ल्युः । २४ नित्यप्रवृत्तित्वेन ध्यायमानत्वात् सम्प्रतिः । अतीतचतुर्विंशतिजिनेन्द्राणां नामानि ॥ भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥५३॥ स्वयंप्रभश्च सर्वानुभितिर्देवश्रुतोदयौ येषां तीर्थङ्कराणां यादृग्वर्णस्तमाहरक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्ण पुनर्नेमिमुनी विनीलौ श्रीमल्लिपार्श्वों कनकत्विषोऽन्ये ॥४९॥ पद्मप्रभवासुपूज्यौ जिनौ रक्तौ रक्तवर्णो, चन्द्रप्रभपुष्पदन्तौ नौ शुक्लौ शुक्लवर्णौ, नेमिमुनी नेमिश्च मुनिश्च नेमिमुनी अरिष्टनेमिमुनिसुव्रतजिनौ कृष्णौ श्यामवर्णी, श्रीमल्लिपा जिनौ विनीलौ विशिष्टनीलवर्णौ, अन्ये उक्तेभ्यः ऋषभप्रभृतयः षोडशजिनवरेन्द्राः कनकत्विषः कनकस्येव त्विट् कान्तिर्येषां ते कनकत्विषः, स्वर्णवर्णा इत्यर्थः ॥४९॥ उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायशाः ॥ ५० ॥ विमलः सर्वानुभूतिः श्रधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च स्वाम्यैथो मुनिसुव्रतः ॥ ५१ ॥ सुमतिः शिवंगतिश्चैवाऽस्तगोऽथ निमीश्वरैः । अनिलो यशोधराख्यः 'कृतार्थोऽथ जिनेश्वरः ॥५२॥ शुद्धमतिः शिवकरः स्यन्दनश्चार्थं सम्प्रतिः । अतीतायां गतायाम् उत्सर्पिण्यां दशसागरोपमकोटा२० कोटिप्रमाणायां कालविशेषे अर्हतां तीर्थकृतां केवलज्ञान्यादिसम्प्रतिपर्यन्तानां चतुर्विंशति:, तन्नमानि । १ केवलज्ञानमस्यास्ति केवलज्ञानी । २ निर्वाणं मुक्तिरस्यास्ति निर्वाणी । उभयत्र 'अत इनिठनौ ' ५ । २ । १५५ ॥ इतीनि । ३ ज्ञानागाधजलभरणे गाम्भीर्यगुणेन वा सागर इव सागरः । ४ महत् त्रिलोकीव्यापि यशोऽस्य महायशाः ॥५०॥५ विगतो मलोऽस्य विमलः । ६ अनुभूति: स्मृतिव्यतिरिक्तं ज्ञानम्, सर्वत्र सर्वज्ञत्वादनुभूतिरस्य सर्वानुभूति: । ७ मुक्तिश्रियं धरति श्रीधरः । पचाद्यच् । ८ दत्तं दानमस्यास्ति दत्तः। अर्शआदित्वादच् । दत्तश्चासौ तीर्थकृच्च दत्ततीर्थकृत्। ९ जन्माभिषेकोत्सवे सुरैः क्षिप्तं सुरभिपुष्पदाम३० निगरणाद् लम्बमानमुदरेऽस्य दामोदरः । १० शोभनं जनमनोनयनाह्लादकत्वात् तेजोऽस्य सुतेजा: । ११ त्रिजगतामधीशत्वात् स्वामी । १२ मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः ॥५१॥ १३ शोभना मतिरस्याः अस्माद्वा सुमतिः । १४ शिवे मोक्षे गतिरस्य शिवगतिः । शिवप्रापका गतिर्ज्ञानमस्येति वा गाम्भीर्योद्रेकात् । १५ न विद्यते स्तागो लब्धमध्यताऽस्येति अस्तागः । १६ परीषहोपसर्गादीनां नामनाद् निमिः स चासौ ईश्वरश्च निमीश्वरः, १. टीकायां " कृतार्थो रेफकवर्गचतुर्थान्तः" इत्युक्तत्वात्, 'कृतार्घः' इति, मुद्रिते मूले तथा मु. स्वोपज्ञवृत्तावपि 'कृतार्थ-' इति दृश्यते ॥ २. 'मूल्या' इति २ ॥ Jain Education International अभिधानचिन्तामणिनाममाला पेढालः पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः ॥५४॥ अममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ॥५५॥ विजयो मल्लदेवौ चानन्तवीर्यश्च भद्वैकृत् । ५० भाविन्याम् आगामिन्यामुत्सर्पिण्यां कालविशेषे पद्मनाभादिभद्रकृदन्तानां तीर्थङ्कराणां नामानि । १ यथा पद्मं नाभावस्य पद्मं नाभिरस्येति वा पद्मनाभः । 'नाभे संज्ञायाम् ' ( ) इत्यञ्, 'यस्येति च ' ६।४।१४८ ॥ इतीकारलोपः । २ रागद्वेषादिशत्रुसैन्यं प्रति शूरो विक्रमवान् स चासौ देवश्च शूरदेवः । ३ शोभनौ पार्श्वावस्य सुपार्श्वः, ततः स्वार्थे कनि सुपार्श्वकः ॥५३॥ ४ स्वयमात्मनैव, न तु परोपाधिना, प्रकर्षेण भाति स्वयंप्रभः । 'आतोऽनुपसर्गे कः '३ ।२।३ ॥, ' आतो लोप इटि च ६ ४ ६४ ॥ इत्यालोपः । ५ सर्ववित्त्वात् सर्वा निखिलाऽनुभूतिरस्य सर्वानु- ६० भूतिः । ६ देवेषु श्रुतः प्रतीतो देवश्रुतः । ७ उदेति उदयं प्राप्नोति धर्मोऽस्मादिति उदयः । उद्पूर्वः 'इण् गतौ ' ( अ.प.अ.), पचाद्यच्, 'सर्वाधातुक- ' ७१४४८४ ॥ इति गुणः, 'एचोयवायाव: ' ६ १७८॥ इत्ययादेशः । ८ पढति तत्त्वमिति पेढालः । पृषोदरादिः । ९ जन्मप्रभृत्येव ज्ञानत्रयेण पुटति संविष्यति पोट्टिलः । ' स्थण्डि लादयश्च ४ । २ । १५ ॥ इति निपातनात् साधुः । १० शतमिति बह्वर्थोपलक्षणम् । शतं बह्व्यः कीर्तयोऽस्य शतकीर्तिः । ११ शोभनान्यहिंसादीनि व्रतान्यस्य सुव्रतः ॥ ५४ ॥ १२ नास्ति ममेति मदीयमेतदिति बुद्धिरस्य अममः । मम इति विभक्ति प्रतिरुपकमव्ययं मदीयता बुद्ध्यर्थे । १३ निर्गतः काषयेभ्यो निःकषायः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या ' (वा - २।२।१८।। ) इति समासः । १४ निश्चितं पोलति ज्ञानयशोभ्यां महान् भवति निःपुलाकः । निर्पूर्वः 'पुल महत्त्वे ' (भ्वा.प.से.), 'बलाकादयश्च' (उणा - ४५४) इति ७० For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy