SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ११ अन्ते यथाऽत्यल्पबीजेषु महद्वटवृक्षाः सुप्ता, हीरक पद्मराग-मौक्तिकेष्वमूल्यमूल्यं छन्नम्, तथैव शब्देष्वभिलाप्यानि भलाप्यपदार्थानामगाधातलस्पर्शिनी शक्तिश्छन्ना । अत एवोक्तं महाभाष्यकारेण पतञ्जलिना- "एक: शब्दः सम्यग् ज्ञातः सम्यक् प्रयुक्तः स्वर्गे लोके च कामधुग् भवति' इति, तेन तच्छक्तेरनुभवोऽमरकोषाभिधानचिन्तामणिनाममालादीनां व्युत्पत्तिरत्नाकरादिटीकानां च पठने पाठने चिन्तने मनने च ॥ (१) ग्रन्थादावस्मदध्यापकपण्डितप्रवरश्रीविष्णुकान्तझामहोदयरचितशब्द-शक्तिविषयकलेखः ॥ (२) ग्रन्थान्ते शब्द - तदर्थ-लोकाङ्क- पृष्ठाङ्क पङ्क्त्यङ्कसहितसंस्कृतशब्दानामकारादिक्रमः ॥ (अकारादिक्रमेणाऽभिधानचिन्तामणिनाममालानां व्युत्पत्तिरत्नाकरटीकान्तर्गतानां च शब्दानां यावन्तोऽर्थास्तेषां राष्ट्रीय भाषाहिन्द्यामनेकग्रन्थोद्धरणपूर्वकमत्युत्तमसङ्कलनमल्प एव समये प्रकटयिष्यते) ॥ (३) शब्द - लोकाङ्क- पृष्ठाङ्क - पयङ्कसहितगुर्जरशब्दानामकारादिक्रमः । (४) टीकान्तर्गतानां शेषनाममालेतराणां पृष्ठाङ्क - पङ्क्त्यङ्कपूर्वकानां लोकानां ग्रन्थेऽस्मिन्नुपयुक्तानां ग्रन्थानां ग्रन्थकाराणां चाssकारादिक्रमो निर्दिष्टोऽस्माभिः ॥ (१) येऽस्माकं प्रति " शब्दकोषस्याऽयं परिश्रम एकग्रन्थाद् न विरमेत् परं त्वजस्त्रमुपयुक्तानां ग्रन्थानां संशोधनं भवेत्, तदैव श्रुतसाधना, सा निरन्तरा प्रचलतु" इति शुभकामनामिच्छन्तो योगक्षेमकर्तारो जिनशासनोन्नतिकारका परमपूज्याचार्य श्रीमद्विजयचन्द्रोदयसूरीश्वरमहाराजाः ॥ ऋणस्वीकारः) (२) क्व जिनशासनधुरावहा भवत्सदृशा महापुरुषाः क्वाऽस्मत्सदृक् पामरजीवस्तथापि येषां शिरीषकुसुमकोमलहृदये 'मनोमन थई गयुं के आ बाळक जिनशासनना नभोमंडळमां प्रकाश पाथरशे' इति वाक्यमस्ति, ते परमकृपालवः श्रीगुरुदेववर्या (परमपूज्याचार्य श्रीमद्विजयाशोकचन्द्रसूरीश्वरमहाराजा: ) ॥ (३) शास्त्र-संशोधन-सम्पादनगहनाटवीस्थितानामस्मत्सदृशानमनभिज्ञानां मार्गदर्शका एतद्ग्रन्थस्य साद्यन्तसुचारुपरिमार्जकाः संशोधन-सम्पादनप्रत्यवसरे उपस्थितानां शङ्कानां समस्यानां चर्जुसमाधानकारका विद्वत्ताया भारमवहमाना अस्मद्गुरुवराः (परमपूज्याचार्यश्रीमद्विजयसोमचन्द्रसूरीश्वरमहाराजाः ) ॥ (४) आगमसूत्रज्ञातारः सङ्घस्थविरा: परमपूज्यमुनिराज श्रीजम्बूविजयमहाराजाः ॥ (५) परमपूज्यगणिवर्य श्री श्रमणचन्द्रविजयमहाराजाः ॥ (६) परमपूज्याचार्य श्रीमद्विजयजयचन्द्रसूरीश्वरमहाराजसह वर्तिपं. श्रीस्थूलिभद्र - पुष्पचन्द्र - कैलासचन्द्रराजचन्द्रविजय - गणि श्रीनिर्मलचन्द्र - कुलचन्द्र - प्रशमचन्द्रविजय - प्र. श्रीकल्याणचन्द्र- कुशलचन्द्रविजयमुनिश्रीबलभद्र - अमरचन्द्र- प्रकाशचन्द्र - सुधर्मचन्द्र - शशीचन्द्र-जिनेशचन्द्र - समकितचन्द्र- प्रियचन्द्रसङ्घचन्द्र-सिद्धचन्द्र-श्रेयचन्द्र- श्रुतचन्द्र-संवेगचन्द्र- निर्वेदचन्द्र- निरागचन्द्र- सुयशचन्द्र - ऋषभचन्द्रसंयमचन्द्र लब्धिचन्द्र- सत्यचन्द्र - सुजसचन्द्र - सुनयचन्द्र- कल्पचन्द्र - भक्तिचन्द्रविजयादिमुनिवराः ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy