SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ १० प्रज्ञापनादिभिः सह विरोधात्, तथा च प्रज्ञापनासूत्रप्रथमपदत्रीन्द्रियाधिकारः "गौमी (गोम्ही ) हत्थिसोंडा " [ श्रीप्रज्ञापनोपाङ्गम्, त्रीन्द्रियप्रज्ञापना, सू-२८] इत्यादि, "गोमी (गोम्ही) कर्णशृङ्गालिका, जे यावण्णे तहप्पगारा, ये चाऽपि चान्ये तथा प्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्या इति शेषः " [ श्रीमलयगिर्याचार्यविरचितविवरणम्, पृ. ४२ ]इति तद्वृत्तिः इति ॥" ( परमपूज्याचार्य श्रीविजयकस्तूरसूरीश्वरमहाराजसम्पादितकोशे पाठविपर्यासो न दृश्यते) ॥ (१६) झिल्लिकाशब्दविषये (पृ. ५६३, पं. ५२ ) - बाहुलकाद् ह्रस्वत्वे झिल्लिका । "झिल्ली वाद्यभेदः, तत्तुल्यशब्दाद् झिल्लीव । कनि, 'केऽणः ' ७।४।१३ ॥ इति ह्रस्वत्वे [टाप्] झिल्लिका "[पदचन्द्रिका, भा-२, सिंहादिवर्ग:, श्री - २४३ ] इति मिश्राः । झिल्लीत्यपि । "दूती विद्युदुपासिता सहचरी रात्रिः सहस्थायिनी । दैवज्ञो दिशति स्वनेन जलदः प्रस्तानवेलां शुभाम् । वाचं माङ्गलिकीं तनोति तिमिरस्तोमोऽपि झिल्लीरवैर्जातोऽयं दयिताभिसारसमयो मुग्धे ! विमुञ्च त्रपाम् ॥१॥ [ ] इति भानुदत्तः" इति ॥ (१७) तुङ्गशब्दविषये (पृ. ६५६, पं. ३७ ) - "तुज्यते (तुञ्ज्यते) हिंस्यते तुङ्गम् । 'तुजि हिंसायाम् ' (भ्वा.प.से.), 'तुजि पालने ' (भ्वा.प.से.) वा, अस्माद् घञि, 'चजो: - ७।३ १५२ ॥ इति कुत्वम्, वार्तिककारमते तु न्यक्वादित्वात् कुत्वम्" इति ॥ ( १८ ) प्रकाण्डशब्दविषये (पृ. ६६२, पं. २ ) - " प्रकाण्डं पुंक्लीबलिङ्गम् । " अस्त्री प्रकाण्डो विटपे तरुस्कन्धप्रशस्तयो: ''[ ] इति मेदिनिः । तल्लजादय आविष्टलिङ्गकाः, आविष्टमागृहीतमपरित्यक्तं स्वलिङ्गं यैस्ते आविष्टलिङ्गकाः, लिङ्गान्तरसम्बन्धेऽपि न विशेष्यलिङ्गका इति भावः । यथा - कुमारीतल्लज:, अश्वमतल्लिका । " अरिर्मधोरैक्षत गोमतल्लिकाम् "[ शिशुपालवधम्, सर्गः १२ श्री - ४१ ] इति माघः । गोप्रकाण्डमिति, 'दण्डकानध्यवात्तां यौ वीर ! रक्षः प्रकाण्डकौ [ भट्टिकाव्यम्, सर्ग: ५, लो - ६ ] इति भट्टिः । " अत एव मतल्लिकादीनां रूढिशब्दत्वात् 'प्रशंसावचनैश्च' २ ।१ ६६ ॥ इति समासः ।" [पदचन्द्रिका, भा-१, कालवर्ग:, श्रो- १२९] इति मिश्राः । उपलक्षणत्वादाविष्टवचनाश्च यथा- तातश्च ते पादाश्च तातपादा इत्याद्यपि सिद्धं ज्ञेयम् " इति ॥ 44 (१९) जातिशब्दविषये (पृ. ६९४, पं. ८ ) - " जायतेऽस्यां जातिः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'स्त्रियां क्तिन् '३ ॥३ ॥९४ ॥, ' अनुनासिकस्य - ' ६।४।१५ ॥ इति दीर्घः । गौरयं गौरयमित्यादिसदृशाभिलापज्ञानहेतुर्जातिरित्यर्थः । यदुक्तम्- "आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् "[ काशिका४ |१ |६३ ॥ ] इति । जातमित्यकारान्तोऽपि क्ली । " जातं जात्योघजन्मसु ''[विश्वप्रकाशकोशः, तान्तवर्ग:, श्रो- १४ ] इति महेश्वरः । " जाति: सामान्यम् ' [ ] इति तट्टीका " इति ॥ (२०) प्रत्याहारशब्दविषये (पृ. ६९८, पं. ३५ ) - " प्रत्याह्रियन्ते संक्षिप्यन्ते वर्णा अत्रेति प्रत्याहारः । बाहुलकादधिकरणे घञ्, अण् इण् यणादिः । " [ अन्नादिक ] विषयेभ्य इन्द्रियाणामाकर्षणं च " [ अम. क्षीर. ३ ।२ । १६ ॥ ] इति क्षीरस्वामी अर्थद्वयं प्राह । इह त्वाचार्याभिप्रायेणाऽऽद्य एवार्थो ज्ञातव्यः, अपरस्य तु - " प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ' [ अभि-, श्रो- ८३] इत्यनेन प्रागेव व्याख्यानात् " इति ॥ 11 ( २१ ) १५२५तमश्लोकस्याऽवतरणे (पृ. ६९८, पं. ५२ ) - " सङ्ग्रहमाह - सङ्कलय्यार्थकथनं सङ्ग्रहस्तम्- " इति ॥ अन्यान्यप्युदाहरणानि बहूनि सन्ति, अत्र विस्तरभयान्नोल्लिखितानि ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy