SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कथाकोशः [६] १९ रत्नायुधदेवोऽप्यच्युतादागत्य जिनदत्तायां विभीषणो नाम वासुदेवः पुत्रो जातः । विभीषणः शर्कराप्रभायां गतः। विजयो लान्तवेऽहमादित्याभो देवो जातः । जम्बूद्वीपे ऐरावतेऽवध्यायां राजा श्रीवर्मो, ३ राज्ञी सीमा, विभीषणस्तयोर्लक्ष्मीधामनामा पुत्रो जातो मया संबोधितः। तपः कृत्वा ब्रह्मस्वर्गे देवो जातः । वज्रायुधः सर्वार्थसिद्धेश्च्युत्वा संजयन्तमुनिर्जातः । ब्रह्मस्वर्गाच्च्युत्वा जयन्तमुनिनिदानाद्धरणेन्द्रो जातः। अतिदारुणभिल्लोऽपि नरकान्निःसृत्य बहुदुःखानि सहमानस्तिर्यग्योनौ परिभ्रम्य ऐरावतक्षेत्रे वेगवतीनदीतीरे भूतरमणकानने गोशृङ्गतापसेन शङ्खिनीतापस्यां हरिण- ९ शृङ्गनामा पुत्रो जातः । पञ्चाग्निसाधनादिकं कृत्वा मृत्वा नभस्तलवल्लभपुरे राजा वज्रदंष्ट्रो राजी विद्युत्प्रभा तयोः पुत्रो विद्युदंष्ट्रनामा जातः । तेन पूर्ववैरविरोधात्कृतोपसर्गः संजयन्तमुनिस्तपस उद्द्योतनादिकं कृत्वा मोक्षं गतः । एवंविधां संसारस्थिति ज्ञात्वास्योपरि कोपं परित्यज्य नागपाशबन्धनं मुच्यताम् । एतदाकर्ण्य धरणेन्द्रेणोक्तम्-भो आदित्याभ, यद्यपि मुच्यते लग्नोऽयं तथाप्यस्य महामुनेरुपसर्गकारिणो दर्पशातनः शापो दीयते । अस्य कुले विद्यासिद्धिः पुरुषाणां माभूत्, स्त्रीणां तु संजयन्तप्रतिमाने आराधनं कुर्वाणानां स्यादिति ॥ १८ [६] सम्यक्त्वमध्य प्रथम-अङ्गस्य कथा । इहैव भरतक्षेत्रे भूमितिलकनगरे नरपालो नाम राजा, गुणमाला महादेवी, श्रेष्ठी सुनन्दो, भार्या सुनन्दा। अनयोः सप्तमः पुत्रो धन्वन्तरिः, तथा तस्यैव पुरोहितः सोमशर्मा, भार्या अग्निला, तयोः सप्तमः पुत्रो विश्वानुलोमनामा। तौ द्वावपि बाल्यवयसौ सप्तव्यसनाभिभूतौ बहुशः परद्रव्यं हृतवन्तौ । अतो अन्यदा राज्ञा निज- २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy