________________
१८
श्री-प्रभाचन्द्र-कृतः हरिचन्द्रभट्टारकपार्वे धर्ममाकर्ण्य मुनिर्जातः । स एकदा वनगुहायां कायोत्सर्गेण स्थितो दुर्धरतपोऽनुष्ठानेनातीव कृशशरीरो यशोधरा३ श्रीधरायिकाभ्यां दृष्टः। पुत्रदौहित्रस्नेहाद्भक्तिवशाच्च तत्समीपे ते
उपविष्टे । एतस्मिन्प्रस्तावे यः कुक्कुटसर्पो मृत्वा नरके गतः स तत्र वने महानजगरो जातो विषाग्निना काननं प्रज्वालयन्तं रौद्रं फूत्कारं मुञ्चन्तं गुहाभिमुखमागच्छन्तं तं दृष्ट्वा संन्यासं गृहीत्वा ते अपि कायोत्सर्गेण स्थिते । तेन चागत्य मुनिस्ते च भक्षिते च मृत्वा
कापिष्ठस्वर्गे रश्मिवेगो मुनिरादित्यप्रभो नाम देवो जातः । श्रीधरा ९ चन्द्रचूलदेवो यशोधरा रत्नचूलदेवस्तत्रैव जातः। अजगरश्चतुर्थ
नरके गतः । चक्रपुरे राजा अपराजितो, राज्ञी सुन्दरी, सिंहचन्द्र
उपरिमग्रैवेयकादवतीर्य तयोः पुत्रश्चक्रायुधनामा जातः। तस्मै १२ राज्यं दत्त्वा अपराजितो मुनिर्जातः । तस्य राज्यं कुर्वतश्चित्रमाला
राज्ञी कापिष्ठस्वर्गादवतीर्य आदित्यप्रभदेवो वज्रायुधनामा पुत्रो जातः। भूतिलकनगरे राजा आदित्यप्रभो, राज्ञी प्रियकारिणी, कापिष्ठस्वर्गादवतीर्य चन्द्रचूलदेवो रत्नमाला पुत्री तयोर्जाता । वज्रायुधेन परिणीता। रत्नचूलदेवः कापिष्ठस्वर्गादवतीर्य रत्नायुध
नामा तस्याः पुत्रो जातः । तस्मै राज्यं दत्त्वा वज्रायुधोऽपि निज१८ पितुरपराजितस्य पादमूले मुनितिः । रत्नायुधोऽपि कतिपयदिन
मुनिर्जातो रत्नमालया पुत्रस्नेहात्तपो गृहीतम् । तपः कृत्वा माता पुत्रश्चाच्युते देवो जातः [ देवौ जातौ ] । अजगरः पङ्कप्रभानरकानिःसृत्य दारुणनास्नो भिल्लस्य मृगी-भार्यायामतिदारुणनामा पुत्रो जातः । तेन च प्रियङ्गपर्वते कायोत्सर्गेण स्थितो बाणेन विद्धो
वज्रायुधमुनिर्मारितः सर्वार्थसिद्धावुत्पन्नः। अतिदारुणभिल्लोऽपि २४ मृत्वा सप्तमनरकं गतः। धातकीषण्डे पूर्वविदेहे गन्धिलाविषये
अवध्यानगर्यां राजा अर्हद्दासो, राज्ञी जिनदत्ता सुव्रता च, रत्नमालदेवोऽच्युतादागत्य सुव्रतायां विजयो नामा बलभद्रः पुत्रो जातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org