SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११३ कथाकोशः [९०*३] आहूतः-तात, शीघ्रमागच्छ । रत्नस्य यौवनं याति लग्नम् । तद्वचनाद्राजा पश्यन्नतिमूर्यो भणितः । तथान्यदिने विचित्रितकुड्यप्रच्छादनेऽपनीते द्वितीये कुड्ये विचित्रावलोकने राजा महामूर्यो ३ । भणितः । तया राज्ञः पूर्वकारणे कथिते तेन परिणीता सा सर्वान्तःपुरप्रधाना कृता । सेवागतमन्तःपुरं तस्याः शिरसि टोल्लकान् प्रदाय गच्छति । सा दुर्बला जाता। जिनालये प्रविश्य आत्मनिन्दां करोति। ६ जघन्यकुलजाताहम् । पृष्टा राज्ञापि न कथयति दौर्बल्यकारणम् । जिनभवने पूर्व प्रविन राज्ञा दौर्बल्यकारणं गर्हणं श्रुत्वा अन्तःपुरं भणित्वा सा सुतरां प्रधानत्वं प्रापिता। एवं क्षुल्लकादिनात्यात्म- ९ निन्दा कर्तव्या । हीनकुलादिकारणेन मनोत्कृष्टलिङ्गलब्धिः ।। [९.३] गरिहण अक्खाणं । [II ] अयोध्यायां राजा दुर्योधनो, राज्ञी श्रीदेवी, ब्राह्मणः १२ सर्वोपाध्यायो ऽतिवृद्धो, ब्राह्मणी प्रिया, वीरा तरुणी अग्निभूतिच्छात्रेण सहासक्ता उपाध्यायं मारयित्वा छत्रिकायामारोप्य कृष्ण रात्रौ श्मशाने निक्षेप्त गता। श्मशाने देवतया मस्तके छत्रिकां १५ कीलयित्वा भणिता सा-'प्रभाते नगरी प्रविश्य निजदुःकर्म गृहे. गृहे 'नारीणां कथय त्वं येन पतति छत्रिका। तथा कृते पतिता छत्रिका मस्तकात् । सा लोकमध्ये शुद्धा जाता ।। आलोचनैः गर्हणनिन्दनैश्च व्रतोपवासैः स्तुतिसंकथाभिः । एभिस्तु योगैः क्षपणं करोमि विषप्रतीघातमिवाप्रमत्तः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy