SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्री-प्रमाचन्द्र-कृतः तुकाबाह्मणवेषेणागत्य विजयवैजयन्तदेवाभ्यां प्रतीहारप्रवेशिताभ्यां सगन्धतैलाभ्यङ्गं कृत्वा पादविक्षेपं कुर्वतस्तस्य तेजोरूपे दृष्ट्वा भणितम्-भो चक्रवर्तिन्, यथाभूते सौधर्मेन्द्रेण व्यावणिते त्वदीये तेजोरूपे तथाभूते सत्ये। तच्छ्रुत्वा चक्रवर्तिनोक्तम्-किं दृष्टं भवद्भ्याम् । प्रतीक्षेथाम् दर्शयामि । ततः स्नात्वा मण्डनं भूषणं च ६ गृहीत्वा सिंहासने स्थित्वा देवौ समाहूय दर्शितमात्मरूपम् । तं दृष्ट्वा देवाभ्यां भणितम्-प्रथमावलोकने संपूर्ण दृष्टं रूपादिकं तवेदानी किंचिदूनं जातं जलपूर्णघटे गतबिन्दुमात्रमिव न लक्ष्यते । ९ इत्युक्त्वा देवौ गतौ। देवकुमारपुत्राय राज्यं दत्त्वा सनत्कुमारो मुनिरभूत् । षष्ठाष्टमाद्युपवासान् कृत्वा कञ्जिकाहारादिना पारणकं कुर्वाणस्य कण्ड्वादयो रोगाः संजाताः । उग्रतपो ऽनुतिष्ठतो जल्लोषध्यादय ऋद्धयो जाताः। पुनः सौधर्मेण मुनिगुणव्यावर्णनं कुर्वता सनत्कुमारस्य शरीरनिःस्पृहत्वं व्यावणितम् । पुनस्तौ देवौ वैद्य रूपेणाटव्यां तत्समीपमायातौ व्याधीन् स्फेटयाम इति पुनः पुन१५ भणन्तौ मुनिनोक्तौ-मे संसारव्याधि स्फेटयथः । अमी रोगाः मम करस्पर्शादेव नश्यन्ति। किमेभिर्नष्टैः । तथा प्रतीतिश्च कृता। तयोः संसारव्याधि त्वमेव भगवन् स्फेटयितुं समर्थ इति भणित्वा १८ प्रकटीभूय प्रशस्य च प्रणम्य च गतौ । कतिपयदिनैः स सनत्कुमार मुनिः कर्मनिर्जरां कृत्वा मोक्षं गतः ।। [६७] मध्ये गङ्गमित्यादि। [णावाए णिबुडाए गंगामज्झे अमुज्झमाणमदी। आराधणं पवण्णो कालगओ एणियापुत्तो ॥१५४३॥ ] अस्य कथा-पणीश्वरनगरे राजा प्रजापाल:, श्रेष्ठी सागरदत्तः, २४ श्रेष्ठिनी पणिका, तत्पुत्रः पणिको नामा। स वर्धमानस्वामिनं पृष्टवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy