SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कथाकोशः [६६] [६५] आ जिनमिदेत्यादि । [ भूमीए समं कीलाकोट्टिददेहो वि अल्लचम्मं व । भयवं पि गयकुमारो पडिवण्णो उत्तमं अटुं ॥१५४१॥] ३ अस्य कथा-द्वारवतीनगर्यां राजा वासुदेवो, राज्ञी गान्धर्वसेना, पुत्रो गजकुमारः । पोदनपुरे राजा अपराजितो वासुदेवस्य न सिध्यति । ततो वासुदेवेन घोषणादायि, यो ऽपराजितं बन्धयित्वा ६ आनयति तस्मै वरमीप्सितं ददामीति । गजकुमारेण पोदनपुरं गत्वा युद्धे जित्वा ऽपराजितं बन्धयित्वा आनीय वासुदेवस्य समर्पितः । ततः कामचारं वरं वरयित्वा द्वारावतीस्त्रीजनं सेवमानः पांसुलश्रेष्ठिनो ९ या सुरपतिनामा भार्या तस्यामासक्तः । पांसुल: कोपेन प्रज्वलत्तिष्ठति। एकदारिष्टनेमिजिनागमेन गजकुमारो धर्ममाकर्ण्य तपो गृहीत्वा विहृत्योर्जयन्तोद्याने पादोपयानमरणमुररीकृत्य संन्यासेन स्थितः। १२ पांसुलो लोहकीलस्तं सर्वतः कीलयित्वा नष्टः । तां वेदनामगणयित्वा परमसमाधिना कालं कृत्वा स्वर्ग गतः ॥ [६६] अरुचिद्धरेत्यादि [?] १५ [ कच्छुजरखाससोसो भत्तच्छद्धच्छिकुच्छिदुक्खाणि । अधियासियाणि सम्मं सणक्कुमारेण वाससयं ।।१५४२॥] अस्य कथा-हस्तिनागपुरे राजा विश्वसेनो, राज्ञी सहदेवी, १८ पुत्रः सनत्कुमारश्चतुर्थचक्रवर्ती । एकदा सौधर्मेन्द्रस्य सभायामीशानस्वर्गात्संगमनामो देवः समायातः। तत्तेजसा सभास्थितदेवानां तेजो लुप्तमादित्ये समुत्थिते नारकाणामिव । तैर्देवैरिन्द्रः पृष्टः-कि देवा- २१ नामेवैवं तेजो रूपं च किंवा मनुष्याणामपि संभवतीति । कथितमिन्द्रेण । सनत्कुमारचक्रवर्तिनस्तेजोरूपे देवेभ्यो ऽप्यधिके । ततः कौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy