SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कथाकोशः [४] कारणं कथितम् । ततो विस्मितेन राज्ञा भणितम् । अवन्तिसुकुमाल इति नाम कृतम् । भुक्तोत्तरं क्रोडनवाप्यां जलक्रोडां कुर्वतो राज्ञो मुद्रिका वाप्यां पतिता। गवेषयता राज्ञा तत्रानेकमणिकुण्डला- ३ भरणानि दृष्टानि । ततो विस्मितो लज्जयित्वा स्वगृहे गतः । सुकुमालस्वामिमातुलेन गणधराचार्येण सुकुमालस्वामिनः स्वल्पमायुर्ज्ञात्वा तदीयोद्याने आगत्य योगो गृहीतः। यशोभद्रया गृहे ६ प्रवेशः स्वाध्यायघोषश्च योगपरिसमाप्ति यावन्निषिद्धः । योगनिष्ठापनक्रियां कृत्वा ऊर्ध्वलोकप्रज्ञप्तिं पठताच्युतस्वर्गे देवानामायुरुत्सेधसौख्यादिव्यावर्णनं कर्तुमारब्धम् । तच्छ्रुत्वा सुकुमालस्वामी जाति- ९ स्मरो भूत्वा मुनिसमीपे आगतः । मुनिनोक्तम्-त्रीणि दिनानि तवायुर्यज्जानासि तत्कुरु। ततस्तयोर्गृहीत्वा संन्यासं च पादोपयानमरणे स्थितः । या अग्निभूतेर्भार्या कृतनिदाना सा संसारे परिभ्रम्य १२ तत्रैव शृगाली जाता। ततस्तया चतुःपुत्रया पूर्वभववैरसंबन्धेन पादाभ्यामारभ्य खादन्त्या तृतीयदिने परमसमाधिना कालं कृत्वाच्युते देवो जातः। देवैर्महाकाल इति घोषणान्महाकाल यत्र १५ गन्धोदकवर्षस्तत्र गन्धवती नदी। यत्र भार्याभिरागत्य कलकल: कृतस्तत्र कलकलेश्वरो जात इति । [६४] मौगिलगिरावित्यादि। १८ [ मोग्गिल्लगिरिम्मि य सुकुसलो वि सिद्धत्थदइयभयवंतो। वग्घीए वि खज्जंतो पडिवण्णो उत्तमं अटुं ॥१५४०॥] : अस्य कथा-अयोध्यायां राजा प्रजापालः, श्रेष्ठी सिद्धार्थ-इभ्यः। २१ तस्य द्वात्रिंशद्भार्या अपुत्रास्तासां मध्ये अतीव वल्लभा जयावती। सा पुत्रार्थं यक्षाणां पूजां कुर्वाणा दिव्यज्ञानिमुनिना भणिता-पुत्रि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy