SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्री-प्रभाचन्द्र-कृतः सर्वनगरजनेन सह मुनिसमीपमागतः । ततो मुनिभट्टयोर्मदीया मदीयेति विवादे मुनिनोक्तम्-चतुर्दशविद्यास्थानानि मया पाठिता ३ मदीयेयम् । राज्ञोक्तम्-तहि पाठय । मुनिनोक्तम् –वायुभूते पठ। ततो नागश्रिया यथास्थानं चतुर्दशविद्यास्थानानि पठितानि । विस्मितेन राज्ञोक्तम्-भगवन्, संबन्धं कथय । ततः पूर्वकथासंबन्धः ६ कथितः । तं श्रुत्वा राजा बहुराजपुत्रैः सह प्रावाजीत् । नागशर्मा ऽपि मुनिर्भूत्वा अच्युते देवो जातः । नागश्रीरपि तपः कृत्वा अच्युते देवो जातः । अग्निमन्दरगिरौ सूर्यमित्राग्निभूती तु निर्वाणं तगौ ॥ ९ तथावन्तिदेशे उज्जयिन्यां नगर्यां इन्द्रदत्तेभ्यस्य गुणवत्यां नाग शर्मचरो देवो ऽच्युतादागत्य सुरेन्द्रदत्तनामा पुत्रो जातः। तत्रैव सुभद्रेभ्यस्य पुत्रों यशोभद्रां परिणीतवान् । तया चैकदावधिज्ञानी १२ मुनिः पृष्ट:-मम पुत्रो भविष्यति न वेति। मुनिनोक्तम्-तव पुत्रो भविष्यति । तन्मुखं दृष्ट्वा श्रेष्ठी तपो ग्रहीष्यति। सो ऽपि मुनिं दृष्ट्वा तपो अहिष्यतीति नागश्रीचरो देवस्तत्पुत्रः सुकुमालनामा जातः । १५ सुरेन्द्रदत्तस्तस्य श्रेष्ठिपदं बन्धयित्वा मुनिरभूत् । सुकुमालश्रेष्ठी च यौवनस्थो द्वात्रिंशत्प्रासादेषु अप्रतिरूपद्वात्रिंशत्कुलपुत्रिकाभिः सह भोगाननुभवन् स्थितः। निमित्तिना च पूर्व तस्य आदेशः कृतः । १८ मुनिदर्शनेनायं मुनिर्भविष्यतीति। ततो गृहे मुनीनां प्रवेशो निषिद्धः । एकदा प्रद्योतराज्ञो भ्रमातुकेनानयॊ रत्नकम्बलो दर्शितो राज्ञा ग्रहीतुं न शक्तः । सुकुमालजनन्या तं गृहीत्वा द्वात्रिंशद्वधूनां प्राण२१ हिताः कारिताः। तत्रका प्राणहिता मांसखण्डं मत्वा सौलिकया नीत्वा चञ्च्या हत्वा घातिता। राज्ञो गणिकया राज्ञो दर्शिता सुकुमालभार्याप्राणहितेयमिति श्रुत्वा जाताश्चर्यो राजा सुकुमाल२४ स्वामिनं द्रष्टुं गृहे गतः । तज्जनन्या अभ्युत्थानं कृतम् । एकस्मिन्पट्टे राज्ञा सहोपविष्टस्य मुहुर्मुहुः कण्ठहारारात्रिकोयोतादक्षिगलनं सह भुजानस्यैकैकसिक्थभक्षणं दृष्ट्वा राज्ञा तज्जननी पृष्टा तया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy