SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ७ . श्री-प्रभाचन्द्र-कृतः अस्य कथा-अयोध्यायां राजा विजयसेनो, राज्ञी विजयमतिः, पुत्रौ जयसेनगन्धमित्रौ। वैराग्याज्जयसेनाय राज्यं दत्त्वा गन्ध३ मित्राय युवराजपदं च दत्त्वा सागरसेनमुनिसमीपे मुनिरभूत् । गन्धमित्रेण राज्यमुद्दाल्य निर्धाटितो जयसेनः । स च तस्य मारणो पायं चिन्तयति । गन्धमित्रश्च घ्राणेन्द्रियासक्त: स्त्रीभिः सह सरयू६ नद्यां नित्यं जलक्रीडां करोति । तेन ज्ञात्वा जयसेनेन विषवासित नानासुगन्धकुसुमानि उपर्युपायेन मुक्तानि । तान्याघ्राय मृतो गन्धमित्रो नरकं गतः ॥ ९ [१४] पश्चालगीतशब्देन मूञ्छिता गन्धर्वसेना इति । [ पाडलिपुत्ते पंचालगीदसद्देण मुच्छिदा संती। पासादादो पडिदा गट्ठा गंधव्वदत्ता वि ॥१३५६।। ] १२ अस्याः कथा-पाटलिपुत्र राजा गन्धर्वदत्तो, राज्ञी गान्धर्व दत्ता, पुत्री गान्धर्वसेना गान्धर्वमदविता। यो मां गान्धर्वण जेष्यति स मे भर्ता भविष्यतीति गृहीतप्रतिज्ञा। ततो बहवः क्षत्रियादयस्तया जिताः। तां वार्ता श्रुत्वा पोदनपुरात्पाञ्चालोपाध्यायः पञ्चशतच्छात्रैः सह वादार्थी पाटलिपुत्रमायातः । बहिरुद्याने स्थित्वा यदि को ऽपि परिचितः समायाति तदा मामुत्थापयिष्यथेति छात्रान् १८ भणित्वा श्रान्तो ऽशोकतले सुप्तः। छात्राः पुरं द्रष्टुं गताः । सा गान्धर्वसेना विलासिनी तं द्रष्टुमायाता । एकच्छात्रं पृष्ट्वा वीणा समूहमध्ये तं च सुप्तं परिज्ञाय लालाप्रवाहार्दितविकृताननमदन्तुर२१ मालोक्य विरक्ता गन्धवस्त्रादिभिरशोक पूजयित्वा गता। पाञ्चाले नाशोकं पूजितमालोक्य वृत्तान्तमाकर्ण्य विरूपकं जातमित्युक्त्वा राजानं दृष्ट्वा गान्धर्वसेनासमीपे प्रासादो याचितः। तत्र स्थित्वा २४ परमेश्वरारातौ वीणायाः सुस्वरं गीतमारब्धम् । गान्धर्वसेना च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy