SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ Auth (८७२ ) अभिधानराजेन्द्रः । विरतो पुण जो जाणं, कुणति अजाणं च अप्पमत्तो य । तत्थ वि अज्झत्तसमा, संजायति गिजरा ण चत्र । २६२ । यः पुनर्विरतः - प्राणातिपातादेर्निवृत्तः स जानानोऽपि सदोषमिदमित्यवबुध्यमानोऽपि गीतार्थतया द्रव्यक्षेत्राद्यागा--- डेषु प्रलम्बादिग्रहणेन हिंसां करोति । यद्वा-न जानाति परम्, अप्रमत्तो- विकथादिप्रमादरहितः, उपयुक्तः सन् यत्कदाचित्प्राण्युपधातं करोति, तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा संजायते । यस्य यादृशः तीव्रो मन्दो म ध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः । 'न बनो'ति न पुनश्चयः कर्मबन्धः सूक्ष्मो भaft प्रथमस्य भगवदाश्रया यतनया प्रवर्त्तमानत्वात्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथं प्राण्युपघातनं, तद्भावाऽदुष्टत्वात् । अथ भावद्वारमाह एगो खओवसमिए, वट्टति भावेऽपरो उ श्रदइए । तत्थ वि बंधविसेसो, संजायति भावणाणत्तं ॥ २६३ ॥ एकः कोऽपि क्षायोपशमिके भावे वर्त्तते अपरखौदायिके त त्रापि बन्धविशेषः संजायते भावनानात्वात् । तथाहिय श्रदयिके भावे वर्तते स तीव्रतरं कर्मोपचिनोति, यस्तु क्षायोपशमिके स मन्दतरमिति । एमेव श्रवसमिए, खओवसमिए तहेव खइए य । बंधा बंधविसेसो, ण तुलबंधा य जे बन्धा ॥ २६४ ॥ एवमेवोपशमिके- क्षायोपशमिके तथैव क्षायिके च भावे बन्धा-बन्धविशेषाः सम्यगुपयुज्य वक्तव्याः । येऽपि बन्धिनःकर्मबन्धका जीवास्तेऽपि नातुल्यबन्धकाः, किं तु प्रकृतिस्थित्यनुभावप्रदेशैः परस्परविसदृशकर्म्मबन्धकाः । अथाधिकरणद्वारमाह श्रहिकरणं पुव्वृत्तं चउन्विहं तं समासो दुविधं । व्वित्तणया एया, संयोगे चेत्र रोगविधं ।। २६५ ॥ अधिकरणं पूर्व - प्रथमोद्देशके यथा निर्वर्त्तनानिक्षेपणासंयोजनानिसर्जनाभेदाच्चतुर्विधमुक्तं तथैव ज्ञातव्यम्, नवरं तदधिकरणं समासतो द्विविधं भवति । तद्यथा निर्वर्तनायां संयोगे चैव, संयोजनायां च पुनरेकैकमनेकविधं भवति । तत्र मिर्वर्तनाधिकरणमनेकविधमुपदर्शयतिएगो करेति परसुं; णिव्वत्तेति गखछेदनं अवरो । कुंतकखग्गे या बजे, आरियसूई अ अवरो तु ॥ २६६ ॥ एको लोहकारः पशु-कुठारं करोति । अपरस्तु लोहकार आरिकां सूचीं वा करोति । तत्र यः कुठारकुन्तकरणकादीनि करोति स तीव्रकर्मबन्धभाक् यस्तु नखछेदनारिकासूचीर्निर्वर्त्तयति स स्वल्पकर्मबन्धक इति । वसुं पि विसेसे, कारणसईसु सिव्वणीसुं च । संगामियपरियाणिय, एमेव य जाणमादीसुं ॥ २६७॥ सूयपि विशेषो विद्यते, एकाः कारणसूच्यः अपराः सी वनसूच्यः । तत्र याः परव्यपरोपणादिकारणमुद्दिश्य कारयित्या परस्य नखमूलादौ कुट्यन्ते ताः कारणसूज्य उच्यन्ते, तासु विधीयमानासु महान् कर्मबन्धो भवति । यास्तु वस्त्रसीव Jain Education International वत्थ नार्थ क्रियन्ते तासु स्वल्पतरः कर्म्मबन्धः । एवमेव च यानादिष्वपि वक्तव्यम् । तथाहि - किमपि यानं सांग्रामिकं भवति, यत्रारूढैः संग्रामः क्रियते, अपरं तु पारियानिकम् । परियानं - गमनं तत्प्रयोजनमस्येति पारियानिकम्, उद्यानदौ यस्मिन्नारूढैर्गम्यते । तत्र सांग्रामिकयानादीनि कुर्वतो महान् कर्मबन्धः । पारियानिकानि तु कुर्वाणस्याल्पतरः । आह-यदि नामाधिकरणं नैकविधं तत्तस्मिनिमित्तः कर्मबन्धविशेषः कथमुपपद्यते ?, यावता परिणामवैचित्र्यप्रत्यय एवासाविष्यत इत्याह कारगकरेंतगाणं, अधिकरणं चैव तं तहा कुणति । जह परिणामविसेसो, संजायति तेसु वत्थूसु ॥ २६८ ॥ उपकाराय कुर्वन्नसौ तदधिकरणमेव तथा तेन रूपेण करोति - बुद्धिमुपजनयति, यथा तेषु पर्शुनखच्छेदनादिषु वस्तुषु कार्यमाणेषु च परिणामविशेषः संक्लिष्टासंक्लिष्टरूपमध्यवसायवैचित्र्यं संजायते, यथा कारयाम्यहमिदं पर्शुकुन्तवाणकादिकं ततोऽनेन तत्राध्यासितं बधमेव, यत् वस्त्रादेर्ग्रहणं पुराणस्य - प्राग्गृहीतस्य चोलपट्टकादेः कूर्परादिना ग्रह पुराणग्रहणम्, तश्च द्विधा -- उपस्थापनाग्रहणमुपस्थितिप्रहं च । तत्रोपस्थापनायां विधीयमानायां हस्तिदन्ताऽऽकारहस्तादिभिर्यद् रजोहरणादि गृह्यते तदुपस्थापनाग्रहणम्, द्वितीयम् - उपधिस्थापितस्याच्छेदोपस्थापनीयचारित्रं प्रापितस्य यदुपधिधारणं परिभोगो वा तदुपस्थितिग्रहणम् । एनामेव गाथां व्याख्यानयतिओहियोवगहियं श्रभिनत्रगहणं तु होइ अचित्तं । इयरस्स वि होइ दुहा, गहणं तु पुराणउवहिस्स ॥ २६६ ॥ चित्तस्य वस्त्रपात्रादेरभिनवग्रहणं द्विधा-श्रोघोपधिविधेयम्, श्रपग्रहिकोपधिविधेयं च । इतरस्यापि पुराणोपधिग्रहणं द्विधा - उपस्थापनाग्रहणमुपस्थितग्रहणं चेत्यर्थः । अथवा अभिनव ग्रहणमिदमनेकविधम्जायण निमँतणुवस्सय, परियावनं परिद्ववियनङ्कं । पट्ठपडियगहियं, अभिनवगहणं अणेगविहं ॥२७०॥ याच्प्रा - श्रवभाषणं निमन्त्रणा - गृहस्थानामभ्यर्थनापुरस्स रं यद्वत्रावग्रहणं यश्चोपाध्ये पर्यापन्नस्योपध्यादिभिर्विस्मृत्य परित्यक्तस्य वस्त्रादेर्ग्रहणं यच्च परिष्ठापितस्य भूयः कारणे ग्रहणं तथा नष्टं- हारियं 'पम्हठ्ठे' - विस्मृतं पतितं हस्तात्परिभ्रष्टुं गृहीतं प्रत्यनीकेन बलादाच्छिद्य स्वीकृतम्, एतेषां पुनर्लब्धानां यद्ग्रहणमेवमादिकमनेकविधमभिनवग्रहणं मन्तव्यम् । अथवा याच्यानिमन्त्रणाग्रहणयोर्विधिमतिदिशन्नाहजो चैव गमो हेट्ठा, उस्सग्गाई उ वलिओ गहणे । दुविहोवहिम्मि सो श्चिय, कास त्तिय किं न कीस ति२७१ य एव गमः - प्रकारो ऽधस्तात्पीठिकायाम्, उत्सर्गादिः-कायोत्सर्गादिको वस्त्रग्रहणविषयो वर्णितः स एवात्र द्विविधोपधेरै पधिक पग्रहिकलक्षणस्य ग्रहणे कस्य सत्कमेतद्वस्त्रपात्रादिकं वा पूर्वमासीद्भविष्यति वा कस्माद्वा प्रयच्छसीति पृच्छात्रयपरिशुद्धो द्रष्टव्यः । उपाश्रयपर्यापन्नवस्त्रादिग्रहविषयस्तु विधिरिहैवोदेशके पुरस्तादभिधास्यते For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy