SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ( २६२ ) अभिधानराजेन्द्रः । मास ऋक्षेषु चन्द्रस्य परिवर्तनतो मासो ऽप्याधेये श्राधारोपचा रात् ऋक्षः, ऋक्ष श्रादिर्येषां ते ऋक्षादयः, आदिशब्दात्चन्द्रमासादिपरिग्रहः । तेषामृक्षादीनां मासानामानयनोपायकरणमिदं यमाणम् । तदेवाह - ( जुगदित्यादि ) युगे चन्द्र-चन्द्राs - भिवर्द्धित-चन्द्रा - ऽभिवर्द्धितसंवत्सरप्रमाणे दिनराशिरहोरावराशिर्युगदिनराशिस्तं स्थापयित्वा, किय त्प्रमाणमित्याह श्रष्टादश शतानि त्रिंशानि त्रिंशदधिकानि एतावान् दिनराशिर्युगे भवतीति, कथमवसीयते इति चेत् ?, उच्यते-इह सूर्यस्य दक्षिणम् उत्तरं वा अयनं व्यशीत्यधिकदिनशतात्मकम्, युगे च पञ्च दक्षिणायनानि पञ्श्चोत्तरायणानि सर्वसंख्यया दशायनानि, ततत्र्यशीत्यधिकं दिनशतं दशकेन गुण्यते इत्यागतो यथोक्तो दिनराशिरेवं प्रमाणं दिनराशि स्थापयित्वा । ( भाष्यकारः ) किमित्याहताहे हराहि भागं, रिक्खाईयाण दिनकरंताणं । सत्तट्ठी - बावट्ठी- एगट्टी -सट्टिभागेहिं ।। १७ ।। ततो- दिनराशिस्थापनानन्तरमृक्षादीनामृक्षमासप्रभृतीनां, दिनकरान्तानां सूर्यमासपर्यन्तानां नक्षत्रचन्द्रवदित्यमासानामित्यर्थः । दिनमानानयनाय यथाक्रमं सप्तषष्टिद्वाषपृथेकषष्टिषष्टिभागैः सप्तषष्ट्यादिभिर्भागहारैरित्यर्थः भागं ( इराहि ति ) हर । ततो यथोक्तं नक्षत्रादिमासगतदिनपरिमाणमागच्छति । तच्चोत्तरत्र दर्शयिष्यते । सांप्रतमभिवर्द्धितमासगतदिनपरिमाणानयनाय नेदं करणमिति ( भाष्यकारः ) करणान्तरमाहअभिवडियकरणं पुण, ठाविय रासि इमं तु कायव्वं । ऊबालीससगाई, पट्ठाई अणूणाई ॥ १८ ॥ श्रभिवर्द्धितकरणमभिवर्द्धितमासगतदिनपरिमाणानयनाय करं पुनरिदं वक्ष्यमाणं कर्त्तव्यं प्रयोक्तव्यमिति प्रयोगः । तदेवाह - स्थापयित्वा राशि किं प्रमाणमित्यत श्राह - एकोनचत्वारिंशतानि पञ्चषष्टीनि पञ्चषष्ट्यधिकान्यन्नानि - परिपूर्णानि । केषां राशिरयमिति चेत् ?, उच्चते श्रभिवर्द्धितमासगतदिनचतुर्विंशत्युत्तरशतभागानाम् । तथाहि श्रभिवर्द्धितमासस्य दिनपरिमाणमेकाशदहोरात्रा एकविंशत्युत्तरं शतं भागानाम्, अहोरात्राश्च प्रत्येकम् एकलिं शत् चतुर्विंशत्युत्तरशतेन गुण्यन्ते जातान्यष्टात्रिंशत् शतानि चतुश्चत्वारिंशदधिकानि-३८४४ उपरितनं च एकविंशत्युत्तरं शतं तत्र प्रक्षिप्यते जांतो यथोक्तप्रमाणो राशिः ३६६५ । ( भाष्यकारः ) तं स्थापयित्वा किमित्याहएयस्स भागहरणं, चउवीसेणं सएण कायव्वं । जे लद्धा ते दिवसा, सेसा भागा मुणेयव्वा ॥ १६ ॥ एतस्य अनन्त रोदितस्य पञ्चषष्यधिकैकोनचत्वारिंशच्छ राप्रमाणस्य राशश्चतुर्विंशेन चतुर्विंशत्यधिकेन शतेन भागहरणं, भागे च हृते ये श्रङ्का लब्धास्ते दिवसा ज्ञातव्याः । शेषास्त्वङ्का उद्व (द्ध) खिताः अहोरात्रस्य चतुर्विंशत्युत्तरशत भागाः । भाष्यम् अहवा वि तीसह गुणे, सेसे तेणेव भागहारेणं । मइयम्मि जंतु लग्भइ, ते उ मुहूत्ता मुणेयव्वा ॥ २०॥ Jain Education International मास अथवेति प्रकारान्तरद्योतने । तच्च प्रकारान्तरमिदम् - लब्धदिवसानामुपरि भागास्तावत्तदवस्था एव भियन्ते, तथैव शास्त्रे व्यवहारदर्शनात् । अथवा — अपिः समुच्चये । समुच्चयप्रकारान्तरस्यैवान्यस्य श्रूयमाणत्वात्, शेषे उद्ध (इ) रिते राशौ मुहूर्त्तानयनाय त्रिंशद्गुणे कृते ततस्तेनैव चतुविंशत्युत्तरशतप्रमाणेन भागहारेण भक्ते यत् लभ्यते ते मुहूर्त्ता ज्ञातव्याः । तस्स वि जं अवसेसं, बावट्ठीए उ तस्स गुणकारो । गुणकारभागहारे, बावट्ठीए य उववट्टो ||२१|| ( मा० ) तस्यापि मुहूर्त्तस्य संबन्धि यदवशेषमुद्ध (इ) रितं तस्य मुहूगतद्वाषष्टिभागानयनाय द्वाषष्ट्या गुणकारः-गुणकरणम् । किमुक्तं भवति — यदवशेषं तिष्ठति तन्तु द्वाषष्ट्या गुरायते, ततो ' गुणकारभागहारे इति' यस्योपरितनस्य राशेर्गुणकरमभवत्स गुणकारयोगात् गुणकारः । श्रधस्तनस्तु गुणकारश्च भागहारश्च गुणकारभागहारम् । समाहारो द्वन्द्वस्तस्मिन् षष्ठीसप्तम्योरर्थ प्रत्यभेदः तत एतदुक्तं भवति-गुएकारभागरयोर्द्वापष्ट्या अपवर्तः- अपवर्त्तना क्रियते । दोहिं तु हिए भागे, जे लद्धा तेऽवि सठ्ठिभागा उ । एएसिमागयफलं, रिक्खाईणं कमेण इमं ||२२|| ( भा० ) भागद्वारराशेश्चतुर्वित्यधिकशतप्रमाणस्य द्वाषष्ट्या पवसनायां जातौ द्वौ, ताभ्यां तु द्वाभ्यां हृते भागे येऽङ्का लब्धास्ते द्विषष्टिभागा एव । तुरेवकारार्थः । मुहूर्त्तस्य शातव्याः । सांप्रतमागतप्रतिपादनार्थमिदमाह - ( एएसिमित्या दि) एतेषां भागहाराणामृक्षादीनां नक्षत्रादिमासानां दिनरिमाणनयनाय भागं हरतां यत् श्रागतमेव फलमागतफलं तत् क्रमेण ऋक्षादिमासपरिपाट्या इदं वक्ष्यमाणम् । ( भाष्यकारः ) तदेवाहअहोरतं सत्त्वसं, तिसत्त सत्तट्टिभागनक्खत्तो । चंदो उ उगुणतीसं, विसट्टिभागा य बत्तीसं ॥ २३ ॥ नाक्षत्रो नक्षत्र संबन्धी मासः सप्तविंशतिरहोरात्राः सप्तष्टिभागाः, त्रिःसप्तत्रयो वाराः सप्त एकविंशतिरित्यर्थः २७ ॥ २२ ॥ तथाहि - युगदिनराशिस्त्रिंशदधिकाष्टादशशत प्रमाणो ध्रियते तस्य सप्तषष्टिर्युगे नक्षत्रमासा इति सप्तषष्ट्या भागो हियते, लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरातस्य सप्तषष्टिभागाः । तथा चान्द्रः चन्द्रमास एकोनत्रिंशदहोरात्रा द्वाषष्टिभागा अहोरात्रस्य द्वात्रिंशत् २६| तथाहि तस्यैव युगदिनराशिस्त्रिंशदधिकाऽष्टादशशतमानस्य युगे चन्द्रमासा द्वाषष्टिरिति द्वाषष्ट्या भागे हृते एतावदेव लभ्यते इति । भाष्यम् - उदुमासो तीस दिखा, आइच्चो तीस होइ अद्धं वा । एकतीसा, इगवीससयं च भागाणं ॥ २४ ॥ ऋतुमासः परिपूर्णानि त्रिंशद्दिनानि एकाषष्टिर्युगे ऋतुर्मासा इत्येकं पष्ट्यानन्तरोदितस्य ध्रुवराशेर्भागहरणे, एतावतो लभ्यमानत्वात् श्रादित्यः - श्रादित्यमासो भवति । त्रिंशदहोरात्रा अहोरात्रस्यार्द्ध यतः सूर्यस्य युगे मासाः षष्टिस्ततः षष्टयां ध्रुवराशेर्भागहरणे एतावल्लभ्यते इति श्रभिवर्द्धितोऽभिवर्द्धितमासः एकत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य चतुर्विंशत्युत्तरशतभागानामेकविंशं शतमेकविंशत्यधिकं शत For Private Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy