SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश *पाठान्तर-सुत्तेणं तप्पएसिएहितो। अभयदेवसूरि टोका-अनन्तेभ्योऽनन्तप्रदेशिकर कधेभ्यः प्रदेशार्थतया परमाणवोऽनन्तगुणा सूत्रे उक्ताः सूत्रे चेदम् "सत्वत्थोवा अणंतपएसिया खंधा दवट्टयाए, ते चेव पएसट्टयाए अणंतगुणा, परमाणुपुद्गला दव्वट्ठयाए पएसट्टयाए अणंतगुणा, संखेज्जपएसिया खंधा दवट्टयाए संखेज्जगुणा, ते चेव पएसट्टयाए संखेज्जगुणा, असंखेज्जपएसिया खंधा दवट्टयाए असंखेज्जगुणा, ते चेव पएसट्टयाए असंखगुण' त्ति। रत्नसिंहसूरि टीका-ये भावतोऽप्रदेशा एकगुणकालकादयः, ये च द्विगुणकालकादयोऽनन्तगुणकालकान्तादीन यावद्भावतः सप्रदेशारते सर्वे कालत एकसमयस्थितिका अप्रदेशाः । एवं' इति अनेन व्याख्यानेन भावाप्रदेशेभ्य: कालाप्रदेशा एकगुणकालकद्विगुणकालकादीनां परिणामानन्त्यापुद्गला असंख्यातगुणाः सिद्धा भवन्तीति । इतोऽनन्तरोक्तभ्यः कालाप्रदेशेभ्यो द्रव्यतोऽप्रदेशा असंख्यातगुणा भवन्ति । के पुनस्ते ? इत्याह-परमाणवः । कथं ते बहवः ? तदुच्यते । परस्परासंबंधस्वभावानां परमाणूनामेको राशिः १, द्वयणुकल्यणुकादीनामुत्कृष्टसंख्याताणुकान्तानां स्कंधानां सर्वेषामपि संख्याताणुकव्यपदेशभाजां द्वितीयो राशिः २, जघन्यासंख्याताणुकादीनामेकाद्य कोत्तरगुणवृद्धानामुत्कृष्टासंख्याताणुकान्तानां सर्वेषामप्यसंख्याताणुकव्यपदेशभाजां तृतीयो राशिः ३, जघन्यानन्ताणुकादीनामेकाद्य कोसरगुणवृद्धानामुत्कृष्टानन्ताणुकान्तानां स्कंधानां सर्वेषामप्यनन्ताणुकव्यपदेशभाजां चतुर्थों राशिः ४, एत एव च राशयोऽनन्तानां पुद्गलानां लोके चतुर्दशरज्ज्वात्मके भवन्तीति । 'तत्थ' इति तेषु चतुर्पु राशिषु यद्यप्यनन्तप्रदेशिकाः स्कंधा अनन्ताः सन्ति, तथापि तेभ्योऽनन्तप्रदेशिकस्कंधेभ्यः प्रदेशार्थतया परमाणवोऽनन्तगुणाः सूत्रे उक्ताः। सूत्रं चेदम् – "सव्वत्थोवा अणंतपएसिया खंधा दव्वट्ठयाए, ते चेव पएसट्टयाए अणंतगुणा । परमाणुपुग्गला दव्वटुपएसट्टयाए अणंतगुणा। संखिज्जपएसिया खंधा दव्वट्टयाए संखिज्जगुणा, ते चेव पएसट्टयाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy