SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Introduction I चिन्तारत्नं गुरुभ्यो यद्ददे तेन तु वेव्यहम् । त्वत्सुतः सरिराट् भावी जैनशासनभासनः ॥ १४१ ॥ तामाचम्य गुरोर्वाचं सुधामिव मनोरमाम् । अबन्नाच्छकुनग्रन्थिं सैवमस्त्विति वादिनी ॥ १४२ ॥ तस्यामेव निशीधिन्यां तस्याः कुक्षाववातरत् । कोऽपि पुण्यनिधि वः सरस्यां राजहंसवत् ॥ १४३ ।। समये परिपूर्णेऽथ सासूत सुतमुत्तमम् । यथा मेरुमही कल्पद्रुमं विश्वजनेप्सितम् ॥ १४४ ॥ तदा वागशरीरासीयोनि भाव्येष तत्त्ववित् । जिनवज्जिनधर्मस्य स्थापकः सूरिशेखरः ॥ १४५ ॥ जन्मोत्सवं समापय्य द्वादशाहेऽथ तत्पिता । चाचिगश्चङ्गदेवेति नाम पुत्रस्य तेनिवान् ॥ १४६ ॥ लघीयसोऽपि तस्यासीत् प्रज्ञा विश्वातिशायिनी। __ मोढचैत्येऽन्यदा देवचन्द्रसूरौ समेयुषि । आजगाम तदा तत्र पाहिनी चङ्गदेवयुक् ॥ १४७ ॥ गुरुः प्रदक्षिणीकृत्य यावद्देवान्नमस्यति । तावद्गुर्वासने बाल्याच्चङ्गदेवो न्यविक्षत ॥ १४९ ॥ तदृष्ट्वा सूरिराचष्ट तत्सवित्रीं स्मरस्यदः (?)। स्वप्ने चिन्तामणिं प्राप्य गुरवे त्वं प्रदास्यसि ॥ १५० ॥ स्वयमेवाधुना तेऽसौ सुतस्तदुचितं व्यधात् । पुण्यनैपुण्यजः स्वमः प्रायो भवति नान्यथा ॥ १५१ ॥ तदयं दीयतां भद्रे पुत्रोऽस्मभ्यं पवित्रधीः । यथार्हद्धर्मसाम्राज्यं जनयेज्जगतीतले ॥ १५२ ॥ त्वद्गृहे तस्थिवानेष ज्ञास्यते कुत्रचिन्न वा । सूरितिस्तु विश्वेऽपि यावच्छ्रीजिनशासनम् ॥ १५३ ॥ इत्युक्ता सूरिणा प्रोचे पाहिनी भक्तिवाहिनी । युक्तमुक्तमिदं किंतु प्रार्थ्यतां जनकोऽस्य सः ॥ १५४ ॥ ततस्तं चाचिगं सूरिः प्रतिबोध्य कथंचन। सर्वस्वमिव तदंशश्रियस्तत्पुत्रमग्रहीत् ॥ १५५ ॥ तं चङ्गदेवमादाय दायाद तेजसा रवः । देवचन्द्रप्रभुः स्तम्भतीर्थ प्रति विचेरिवान् ॥ १५६ ॥ प्रज्ञातिशयमालोक्य तस्य वाचस्पतेरिव । शास्त्राब्धिपारदृश्वत्वं श्रीसूरिः समभावयत् ॥ १५७ ॥ महस्वितेव माणिक्ये पुष्पे सुरभितेव च । शास्त्रप्रवेशतस्तस्मिंश्चातुरी व्यलसत्स्वयम् ॥ १५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy