________________
४०. धनधान्यादिविषयकशोकापाथकताधिकारे भव्यकुटुम्बाख्यानकम्
३४६
जिणवयणभावियमई संसारासारयं वियाणंता।
न करंति मए सोयं भवियकुडुचं व सुपिए पि ॥५१॥ अस्या व्याख्या---जिनवचनेन-आगमोपदेशेन भाविता वासिता मतिर्येषां ते तथोक्ताः 'संसारासारतां' भवनैर्गुण्यं 'विजानन्तः' अवबुध्यमानाः न कुर्वन्ति मृते शोकं भव्यकुटुम्बवत् 'सुप्रियेऽपि' अतिवल्लभेऽपि इत्यक्षरार्थः ॥५१॥ भावार्थस्त्वाख्यानकगम्यः। तच्चेदम्
निरुपद्वतादिसदगुणैः, क्वचिदाधिक्यगुणातिशायिनि । बहुधाविधिधान्यसम्भवप्रथिते कर्षकसन्निवेशके ॥१॥ वसति प्रियधर्मनामकं, प्रवणं भव्यकुटुम्बमेककम् । जिनधर्मगुणेन भावितं, प्रियसन्तोषसुधातिसुस्थितम् ॥२॥ अथ तत्र कुटुम्बके बृहन् , जनकः सुन्दरनामधेयकः । दयिताऽपि मनोरमाभिधा, शचिशीलादिगुणा जनप्रिया ॥३॥ तनयोऽप्यनयोर्मनोरथो, भणितोऽथास्य वधूश्च सूमिका । गुणयोग्यमिति प्रसिद्धितः, कथितं भव्यकुटुम्बकं जनैः ॥४॥ प्रियभाषितया विभूषितं, न च केनापि जनन दूषितम् । स्वकुटुम्बकसंहतो स्थितं, परमात्सयवियोगसुस्थितम् ॥५॥ परमेतदनिन्द्यसङ्गतं, जिनधर्माचरणे सुनिश्चितम् । तदचिन्त्यकुकर्मदोषतो, विभवकवल रत्नसिद्धवत् ॥६॥ स्वकुटुम्बकवृत्त्यभावतः, पितृ-पुत्रावनुवासरं हलम् । प्रतिवाहयतो बहिःस्थिती, किमु कुर्यादथवा न दुर्विधः ? ॥७॥ जठरापरिपूरणे पुमानतिमान्यां मुक्त्वा मनस्विताम् । अवध्य मनःप्रियां हियं, परिहृत्य स्वकुलव्यवस्थिताम् ॥८॥ कुरुते कुनरेन्द्रसेवन, तनुते नीचजनेऽपि संस्तुतिम् । प्रथयत्यहितेऽपि मित्रतां, त्यजति स्वाचरणं सतां मतम् ॥२॥ तदमू अपि दौस्थ्यतो जिनं, प्रतिपन्नी कुरुतो हलिक्रियाम् । अथ तत्र कथञ्चिदप्यसौ, तनयः प्राप परासुतामहेः ।।१०॥ जनकोऽपि विबुध्य तं मृतं, जिनवाक्यामृतसुस्थमानसः । हलबाह्यभुवो बहिः सुतं, शुभचित्तोऽक्षिपदुच्चकैः स्वयम् ॥११ सुमना उपचक्रमे हलं, खलवे खेटयितु तथैव सः । अथ तेन पथाऽस्य सीहकः, स्वजनः प्राप कुतोऽपि चाग्रतः ॥१२॥ अवलोक्य तमेवमुज्झितं, तनयं सीमनि तस्य तादृशम् । तमपि प्रयतं निजे हले, जनकं तस्य तथा विशोककम् ॥१३॥ तदनु स्वजनः सविस्मयस्तमपृच्छत् सुतमृत्युकारणम् । स्वजनाय यथाऽभवत् तदा, सकलं सोऽचकथत् तथैव तत् ॥१४॥ अथ तादृगलौकिकं वचः, स निशम्य प्रजगाद सुन्दरम् । यदमुं सुतमित्थमत्यजस्तत् तव सुन्दर ! सुन्दरं नु किम् ? ॥१५॥ अथ तस्य निशम्य तद् वचः, प्रतिबोधाय जगाद सुन्दरः । मयका किमसुन्दरं कृतं, यदयं भद्र ! परासुरुज्झितः? ॥१६॥ अपरोऽपि च किं मृते करोत्वतिरिक्तेऽपि च रोदनाद ऋते । तदपि क्रियमाणमङ्गिनां, नितरांस्वार्थहरं विचिन्त्यताम् ॥१७॥ अपरं च निशम्यतामिदं, प्रकटेऽमुष्य यमस्य वर्त्मनि । निजकर्मभटैगलस्तितो, बत! कोऽप्येति निरेति कश्चन ||१८|| यदपि प्रथितं मृते जने, मिलिते क्वापि च रुद्यते जनैः । अवगच्छ स काकरोलकः, क्रियते तैः पतिते कलेवरे ।।१।। तदयं सुकृतेन कर्मणा, समियाय स्वयमेव मद्गृह । ? स्वयमेव पुनर्गतः क्वचित् , तदहो : किं परिदेवितेन नः ? ॥२०॥ अपरं च ममामुनाऽऽगतं, कथितं नो निजमायता तथा । गमनं च [न] गच्छता ततो, निरपेक्षस्य सतोऽस्य कीदृशः ।।२१।। उपरि क्रियते निबन्धनः ? प्रतिबन्धोऽपि च ? भद्र! कथ्यताम् । इह यो किल मन्यते परं, सजनेनापि च मन्यते स्फुटम् ।।२२।। अथ वक्षि बलीयसी स्थिति न लोकस्य न लभ्यते क्वचित् । तव सत्यमिदं वचः परं, मरणे साऽपि निरर्थकोदिता।।२३।। उचिता पुनरस्ति जीवतः, परमेषाऽपि मया न पारिता । प्रविधातुममुप्य यन्मृतो, विषवेगोत्कटतावशाद दूतम् ।।२४।। कियतामिति भद्र ! खिद्यतां, स्वजनानां भवतां कृते वृथा ? । भविनो निजकर्मवश्यतावशिनः स्वर्गगमा भवन्त्यमी ॥२५॥ तदलं बहुभाषितेन नो, यदतीतं भुवि तन्न शोचयेत् । सुतमृत्युममुं निवेदयेर्मम वेश्मनि निजकः स शिक्षितः ॥२६।। अथ तेन निशम्य तद्वचो, विदितं तावदयं सुनिष्ठुरः । सुतमातृ-कलत्रयोः पुनश्चरितं कीदृगिदं न वेदमयहम् ॥२७॥ इति कौतुकपूर्णमानसः, प्रथमं वेश्मनि तस्य सोऽविशत् । विहितोचितसक्रियः क्षणं, सविषादं निजगाद मातरम् ।।२८|| अयि धर्मनिधे ! मनोरमे !, किमपि त्वं शृणु वाक्यमप्रियम् । कथयेति निवेदिते तया, भणितं तेन तवाङ्गजो मृतः ॥२९॥ कथमित्यविषादमाह सा, भणितं तेन महाहिना क्षितः । अथ सान्यगदत् सहायकः, सदनुष्ठानविधौस नोऽभवत् ॥३०॥
१. नः अस्माकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org