SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ १२ षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः अथ सामान्यपदार्थ: १ सामान्यं द्विविधम् — परमपरं च । तत्र परं सत्ता द्रव्य-गुण-कर्मसु 'सत्. सत्' इत्यनुवृत्तिप्रत्ययकारणत्वात् सामान्यमेव । यत् उक्तम् — 'सदिति यतो द्रव्यगुण-कर्मसु सा सत्ता" । तथा अपरं द्रव्यत्व- गुणत्व कर्मत्वादि । तत्र द्रव्यत्वं द्रव्येष्वेव । गुणत्वं गुणेष्वेव कर्मत्वं कर्मस्वेव । इति सामान्यपदार्थः । अथ विशेषपदार्थ: 'नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः ' नित्यद्रव्याण्याकाशकालदिगात्ममनांसि चतुर्विध परमाणवश्च । ते च अत्यंतव्यावृत्तिबुद्धिहेतुत्वात् विशेषा एव । इति विशेषपदार्थ: । अथ समवायपदार्थः – अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहेति प्रत्ययहेतुः स समवायः । इति समवायपदार्थः । ३ प्रमाणम् — वैशेषिकसिद्धान्ते प्रमाणं वक्तव्यमिति चेत्, तदुच्यते- लैङ्गिकप्रत्यक्षे द्वे एव प्रमाणे, शेषप्रमाणानामत्रैवान्तर्भावात्। तत्र लैङ्गिकं प्रमाणं दर्शयन्नाह — अस्येदं कार्यम्, अस्येदं कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् । अस्येदं कार्यम्, यथा विशिष्टो नदीपूरो वृष्टेः । अस्येदं कारणम्, यथा मेघोन्नतिर्वृष्टेरेव । सम्बन्धि द्विविधम् संयोगि समवायि चेति । तत्र संयोगि, यथा धूमोऽग्नेः । समवायि यथाविषाणं गोः । एकार्थसमवायि द्विविधम्-कार्यं कार्यान्तरस्य कारणं कारणान्तरस्य चेति । तत्र कार्यं कार्यान्तरस्य यथा— रूपं स्पर्शस्य । कारणं कारणान्तरस्य यथापाणिः पादस्य। विरोधि चतुर्विधम्- अभूतं भूतस्य, भूतमभूतस्य, अभूतमभूतस्य, भूतं भूतस्येति । तत्राभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य लिंगम् । तथा भूतं वर्षकर्म अभूतस्य वाय्वभ्रसंयोगस्य लिंगम् । १. प्रशस्तपादभाष्य- पृ. ९६४; Jain Education International २. वैशेषिकसूत्र - १२ ७; For Private & Personal Use Only ३. प्रशस्तपादभाष्य ६ । www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy