SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः 'आकाशमिति' पारिभाषिकीयमिति संज्ञा, एकत्वात् तस्य संख्या परिमाणपृथक्त्व-संयोग-विभागा- शब्दैः षड्भिः गुणैः गुणवत् शब्दलिङ्गंचेति । १, ‘काल: परापरव्यतिकर- यौगपद्यायौगपद्य- चिर- क्षिप्र - प्रत्ययलिङ्गम्, ”स संख्यापरिमाण-पृथक्त्व-संयोग-विभागैः पञ्चभिः गुणैः गुणवान् । २ 'इत इदम्' पूर्वमित्यादिप्रत्ययो यतस्तद् दिश्यं लिङ्गम् । तद्यथा इदमस्मात् पूर्वेण इदमुत्तरेणेति । संख्या-परिमाण-पृथक्त्व-संयोग-विभागैः पञ्चभिः - गुणै: - गुणवती एवेति संज्ञा च पारिभाषिकी चेति । ‘आत्मत्वाभिसम्बन्धादात्मा'' - स च चतुर्दशभिः गुणैः गुणवान्। बुद्धि-सुखदुःखेच्छा-द्वेष-प्रयत्नलिंग धर्माऽधर्म-संस्कार-सङ्ख्या- परिमाण-पृथक्त्व-संयोगविभाग: चतुर्दशगुणा: । मनस्त्वाभिसम्बन्धाद् मनः । तच्च क्रमज्ञानोत्पत्तिलिङ्गं सङ्ख्या परिमाणपृथक्त्व-संयोग-विभाग- परत्वाऽपरत्व- -वेगैरष्टभिर्गुणैर्गुणवत्। इति द्रव्यपदार्थः । अथ गुणाः रूप-रस-गंध-स्पर्शा विशेषगुणाः, संख्यापरिमाणानि पृथक्त्वं संयोग - विभागौ परत्वाऽपरत्वे इत्येते सामान्यगुणाः, बुद्धि-सुख-दुःखेच्छा-द्वेष - प्रयत्न धर्मा धर्म - संस्कारा आत्मगुणाः, गुरुत्वं पृथिव्युदकयोः द्रवत्वं पृथिव्युदकाग्निषु, स्नेहोऽम्भस्येव, वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव, आकाशगुणः शब्द इति । गुणत्वयोगाच्च गुणा इति । तथा चापान्तरालसामान्यानि रूपत्वयोगाद् रूपम्, रसत्वादियोगाद् रसादयः । इति गुणपदार्थः । अथ कर्मपदार्थ: ११ - 'उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्मणि । कर्मत्व योगात् कर्म । गमन - ग्रहणाच्च भ्रमण - स्यन्दन- नमनोन्नमनाद्यवरोधः । इति कर्मपदार्थः । १. प्रशस्तपादभाष्य पृ. २६; ३. प्रशस्तपादभाष्य- पृ.३०; Jain Education International २. वैशेषिक सूत्र २।२।१०। ४. वै. सू. १।१।७ For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy