________________
श्रमणविद्या
इतवयोर्मध्ये भावास्रवस्वरूपमाह30) मिच्छत्ताविरदिपमादजोगकोहादयो स विण्णेया।
पण पण पणदस तिय चदु कमसो भेदादु पुव्वस्स ॥ स विण्णेया सम्यक्प्रकारेण विज्ञेयाः, के ते भेदाः, कस्य, पुव्वस्स पूर्वस्य, भावास्रवस्य इत्यर्थः, किं नामानो भेदाः, मिच्छत्ताविरदिपमादजोगकोहादयो-मिथ्यात्वाविरतिप्रमादयोगक्रोधादयः कुतः पण पण पणदस तिय चदु भेदा दु-पंच पंच पंचदश त्रय चत्वारो भेदात् । तत्र मिथ्यात्वं पंचप्रकार, 'सव्वं क्षणिकम्', इत्येकान्तदर्शी बौद्धाः। 'सव्वं खल्विदं ब्रह्म' इत्येकान्तदर्शी ब्रह्माद्वैतवादी। विनयादेव मोक्ष इत्येकान्तदर्शी शैवाः । 'जिनस्य भोजनं कुर्वतः साभरणे मोक्षः, स्त्रीनिर्वाणं च' इत्येकान्तदर्शी श्वेतपटः। विकल्पसंकल्पकारकात् यथा ज्ञानात्मको मोक्षस्तथाज्ञानादेव इति मस्करपूर्णः, श्रीपार्श्वनाथशिष्योऽप्येकान्तदर्शी। अविरति पंचप्रकारी हिंसा ।। असत्यं ।। चौर्यम् ।३। मैथुनसेवा ।४। परिग्रहस्वीकाररूपाः १५। प्रमादाः पंचदशप्रकाराः, स्त्रीभक्तराजचौरकथाश्चत्वारः। क्रोधमानमायालोभाश्चत्वारः। इन्द्रियप्रवृत्तयः पंच । निद्रा स्नेहश्च । योगास्त्रिप्रकारः अशुभमनोवाक्कायरूपाः। क्रोधश्चतुः प्रकारः स च प्रमादमध्ये पतितो दृष्टव्याः ।
इदानीं द्रव्यास्रवस्य द्वितीयस्वरूपमाह31) णाणावरणादीणं जोग्गं जं पुग्गलं समासवदि ।
दव्वासओ स णेओ अणेयभेओ जिणक्खादो।' दव्वासओ सणेओ द्वव्यास्रवः सः ज्ञेयः, कतिभेदाः अणेयभेदाः, केन कथितः, जिणक्खादो जिनेन प्रतिपादितः स कः, जोग्गं जं पुग्गलं समासवदि-योग्यं यत्पुद्गलं समास्रवति, केषां योग्य, णाणावरणादीणं-ज्ञानावरणादीनां, कर्मणामष्टानां, अष्टभावास्रवो हि द्रव्यास्रवस्य हेतुः ।
इदानीं भावबन्धद्वव्यबंधयोः स्वरूपमाह32) बज्झदि कम्म जेण दुचेदणभावेण भावबंधो सो।
कम्मादपदेसाणं अण्णोण्णपवेसणं इदरो॥ भावबंधो सो स भावबंधो भवति, स कः, जेण दुचेदणभावेण येन पुनश्चतन्यभावेन, बज्झदि कम्म, बध्यते कर्म, इदरो इतरः द्रव्यबंधः, स कथंभूतः,
१. दव्वासवो।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org