SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ अवचूरिजुदो दब्वसंगहो वरणीयमोहनीयान्तरायरूपघाति कर्मचतुष्टयनिर्मू लोन्मूलनात् वेदनीयायुगोत्रनामकर्मणां दग्धरज्जुवत् स्थिते यदुत्पन्नं त्रैलोक्योदरवर्तिसमस्तवस्तुयुगपत्सकलपदार्थप्रकाशकमसहाय तत्केवलज्ञानम् । अत्र मतिश्रुते परोक्षे अवधिमन:पर्यये देशप्रत्यक्षे, केवलं सकलप्रत्यक्षमिति । २०८ तस्य जीवस्य सामान्येन व्यवहारलक्षणं विशेषेण निश्चयलक्षणं चाह— 6) अट्ठ चटु णाणदंसणसामण्णं जीवलक्खणं भणियं । ववहारा सुद्धणया सुद्धं पुण दंसणं गाणं ॥ जीवलक्खणं भणियं जीवानां लक्षणं स्वभावो भणितम्, कथंभूतं सामण्णं सामान्यम् । अयमर्थः - केषांचित् शक्तिरूपेण केषांचित् व्यक्तिरूपेण विद्यमानत्वात् । कदा सामान्यं ववहारणया व्यवहारनयापेक्षया किं लक्षणं अटू चटु णाणदंसण अष्टप्रकारं ज्ञानं चतुःप्रकारं दर्शनम् एते व्याख्येते प्रागेव । सुद्धं पुण दंसणं जाणं शुद्धनयापेक्षया शुद्धं पुनर्दर्शनं ज्ञानं च, दृष्टत्वं ज्ञातृत्वम् च । स च जीवो मूर्तिर्भवत्यमूर्तिश्चेत्याह 7) वण्ण रस पंच गंधा दो फासा अट्ठ पिच्छया जीवे । णो संति अमुत्ति तदो ववहारा मुत्ति बंधादो ॥ सो जीव अत्ति तो अमूर्तिः ततः कारणाद्यस्मान्नो संति नैव विद्यन्ते । के ते वण्णरसपंच गंधा दो फासा अट्ठ, वर्णाः पंच रक्तपीतनील कृष्णश्वेताः । रसाः पंच कटुतिक्तकषायमधुरलवणाम्लाः । गंधौ द्वौ सुरभिदुरभिश्च । स्पर्शाः अष्ट मृदुकर्कश - गुरुलघुस्निग्धरूक्षशीतोष्णाः एते न संति, कदा न संति, णिच्छया निश्चयनयापेक्षया, ववहारा व्यवहारनयापेक्षया पुनः मुक्ति मूर्तियुक्तः उक्तः । बंधादौ कर्मनो कर्मबंधवशात् सः व्यवहारकर्ता परमार्थकर्ता च भवतीत्याह8) पुग्गलकम्मादीणं कत्ता ववहारदो दु णिच्छयदो । चेदणकम्माणादा सुद्धणया सुद्धभावाणं ॥ स आदा आत्मा, कत्ता कर्ता भवति । कदा ववहारा दो व्यवहारनयापेक्षया, केषां कर्ता, पुग्गलकम्मादीणं पुद्गलकर्मादीनां णिच्छ्यदो निश्चयनयापेक्षया, दु पुनः, चेदणकम्माण चेतनकर्मणां क्रोधादीनां कर्ता शुद्धनयापेक्षया शुद्धभावानाम्, अनन्तदर्शनज्ञानवीर्यसुखानामुत्तरोत्तर प्रकृष्टपरिणामानां कर्ता । स च व्यवहारभोक्ता भवतीत्याह 9) ववहारा सुहदुक्खं पुग्गलकम्मप्फलं पभुंजेदि । आदा णिच्छयणयदो चेदणभावं खु आदस्स ॥ संकाय पत्रिका - २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy