SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ गृहकपाट युगलस्य उद्घाटनाय स महाकवि: उच्चैः स्वरेण स्वपत्नी आहूतवान् - "अनावृतकपाटं - द्वारं देहि" । विद्योत्तमा शीघ्रं आगत्य कपाट द्वयस्य उद्घाटनं करोति स्म । श्रीकालिदासं च दृष्ट्वा सा कथयति स्म - "अस्ति कश्चिद वाविशेष: ।” अस्य प्रश्नस्य गम्भीरं अर्थं विचार्य कालिदास: अकथयत्, आर्ये ! अवश्यमेव अस्य प्रश्नस्य दीर्घ उत्तरं यथासमयं दास्यामि । श्रीकालिदासः प्रश्नस्य प्रथमपदं 'अस्ति' इति आदाय "कुमार सम्भवग्रन्थस्य" रचनां कृत्वा स्वपत्री प्रति वदतिस्म - अस्त्युत्तरस्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराज: । पूर्वापरौ तोयनिधी वगाह्म, स्थित: पृथिव्या इव मान दण्ड: ॥1॥ इति प्रथम श्लोकं प्रारंभ्य पूर्ण कुमारसंभव ग्रन्थस्य वाचनं चकार । तस्य प्रश्नस्य द्वितीयपदं 'कश्चित्' इति पदं आदाय - मेघदूतग्रन्थस्य रचनां कृत्वा प्रथम श्लोकं जगाद कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रभत्त: शापेना ऽस्तंगमितमहिमा वर्ष भोग्येण भर्तुः । यक्षश्चक्रे जनक तनयास्नान पुण्योदके षु स्निग्धच्छायातरुष वसतिं रामगिर्याश्रमेष ॥1॥ इति प्रथमश्लोकं प्रारंभ्य पूर्णग्रन्थस्य वाचनं चकार। तस्य प्रश्नस्य तृतीय पदं “वाविशेष :" इति आदाय रघुवंश महाकाव्यस्य रचनां कृत्वा प्रथम श्लोकं मंगलाचरणरूपं कथयतिस्म - वागर्थाविव सम्पृक्ती, वागर्थ प्रतिपत्तये । जगत: पितरौ वन्दे, पार्वतीपरमेश्वरौ ॥1॥ इति प्रथम श्लोकं प्रारंभ्य पूर्ण ग्रन्थस्य वाचनं अकरोत् । श्रीकालिदासस्य स्वरचितग्रन्थै: ज्ञायते यत् स: जन्मत: ब्राह्मण: आसीत् शिवभक्तश्च । स: अन्यदेवानामपि आदरं अकरोत् । स महाकवि: भारतवर्षस्य विस्तृतं भ्रमणं करोति स्म । अत एव तस्य ग्रन्थेषु भौगोलिक वर्णनं अतिसुंदरं स्वाभाविकं च दृश्यते । स महाकवि: रामायण महाभारत वेद - पुराणज्योतिष - आयुर्वेद - संगीत प्रभृति शास्त्राणां ज्ञाता विशेषरूपेण आसीत् ।। श्री कालिदासस्य साहित्यरचनासु काव्य कौशलं, प्रसादत्वं, माधुर्यं मौलिकता च विद्यते ।। आंग्लभाषाया: महाकवि: शेक्सपियर महोदय: कालिदासस्य साहित्यं ज्ञात्वा, समालोचनंकृत्वा, साहित्यस्य मौलिक शिक्षा जग्राह । श्री कलिदासस्य विषये आलोचकानां विचारा: - पुरा कवीनां गणना प्रसंगे, कनिष्ठिका धिष्ठित कालिदासः। अद्यापि तत्तुल्य कवेरभावादनामिका सार्थवती वभूव ॥1॥ कालिदासगिरां सारं, कालिदास: सरस्वती । चतुर्मुखोऽथवा ब्रह्मा, विदुर्नान्येतु मादृशाः ॥2॥ 472 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy