________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ कथितं च नीतिशास्त्र -
परोपदेशे पाण्डित्यं, सर्वेषा सुकरं नृणाम् ।
धर्म स्वीयमनुष्ठानं, कस्यचित्तु महात्मनः ॥3॥ अर्थात् - सर्वेजना: परोपदेशकरणे कुशला: भवन्ति किन्तु कथितस्य कर्तव्यस्य स्वयं पालने विरला: जना: भवन्ति । नहि सर्वेजना: महात्मानः भवन्ति । उपनिषद् ग्रन्थेऽपि मानवानां कृते ब्रह्मज्ञानेन कर्मयोगेन च परम शांतिमार्ग: प्रति पादितः।
____किं च - य: जन: परदारेषु मातृवत् भावं करोति, परधनेषु लोष्ठवत् विचारं करोति, सर्वप्राणिषु आत्मवत् दयां करोति, स: श्रेष्ठः पण्डित: महात्मा च । नीतिग्रन्थेषु उपदिष्टम् -
मातृवत्परदारेषु, परद्रव्येषु लोष्ठवत् ।
आत्मवत्सर्व भूतेषु, यः पश्यति स पण्डित: ॥4॥ अपि च - सहस्रधर्म शास्त्राणां अयं हि सारभूत: उपदेशः दृश्यते - यत्कार्य आत्मन: प्रति विरुद्धं विद्यते, तत्कार्य परान्प्रति कदापि न कर्तव्यं । यद्वचनं निजंप्रति विरुद्धं, तत् अन्य प्रति न वदेत् नापि अनिष्टं विचारयेत् । प्रोक्तं च
श्रूयतां धर्म सर्वस्वं, श्रुत्वा चैवाव धारयेत् ।
आत्मन: प्रतिकूलानि, परेषां न समाचरेत् ॥5॥ श्रीगांधीमहोदयेन कथितं - यत् अहिंसा सत्यं च लोकशान्ते: आत्म शान्तेश्च मार्ग: श्रेष्ठः । श्रीगांधी महोदय: सदैव जीवने अहिंसा-सत्यं ब्रह्मचर्य इति व्रतत्रय पालनं अकरोत् । अयमेव गांधीवाद: प्रसिद्ध :। गांधीवादेन अथवा अहिंसा सत्य वलेन खलु भारतीय नेतार: भारतराष्टं स्वतंत्रं अकुर्वन् । अहिंसासत्य मूलकं हि स्वराज्यप्राप्ते : आंदोलनं गांधी नेहरु प्रभृतय: नेतार: अकुर्वन । युद्धं- विना भारतस्य स्वतंत्रता प्राप्ति: संजाता- इति विश्वस्य दशमं आश्चर्य वैदेशिकजना: कथयन्ति ।
आधुनिकेन भौतिकविज्ञानेनापि स्थायी लोक शांति मार्ग: आत्मशांति मार्गश्च सफल: न भवति । विज्ञानेन क्षणिकशांति: अवश्यं - भवति, सा लोकशांते: मार्ग: न भवति । यथा यथा विज्ञानं वर्धते, तथा तथा लोके सर्वत्र अशांतिः एव वर्धते । विविधवस्तूनां आविष्कारात् तत्प्राप्ते: अभिलाषा दिने दिने सर्व जनानां चित्ते वर्धते, तेन अशांति: अथवा आकुलता भवति । परमाणुवम - इत्यस्य आविष्कारात् विविधशस्त्राणां च निर्माणात् विश्व जनानां पशुप्राणिनां च जीवनं अशांतिमयं एव अथवा भयङ्करमेव दृश्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org