________________
१९०
જ્ઞાનાંજલિ तथाऽत्रापि 'अद्वेषश्चैव जिज्ञासा' (श्लो० ३५ ) इति पद्ये निरीक्ष्यते । ललितविस्तरावृत्ति -योगदृष्टिसमुच्चयादिषु यथा इच्छायोगादीनां स्वरूपं वर्तते तथैवाऽत्रापि प्रकरणे १८९९१ पद्येषु निरूप्यते । तथा योगदृष्टिसमुच्चये यथाऽवेद्यसंवेद्यपदवर्त्यपि मित्राद्याद्यचतुर्दृष्टिगतविशिष्टगुणान्वितो व्यावर्णितोऽस्ति तथाऽत्रापि मिथ्याटिरपि युक्तः स च तादृक्क्रियान्वितः' इति ५४ पद्ये व्यावणितोऽस्ति ।
एतानि पुनर्विशिष्टस्थानानि यान्यस्य प्रकरणस्य श्रीहरिभद्राचार्यकृतत्वमावेदयन्ति-- १. अत्राधिकारिणोऽप्युक्ता अपुनर्वन्धकादयः । त्रय-एव० श्लो० ३७ । अहिगारी पुण ___एत्थं विण्गेओ अपुणबंधगाइत्ति । -योगश० गा० ९. २. न जानाति तामन्यो नष्टनाशनः-श्लो० १३६ । ___ गुरुणो अजोगिजोगो० जोगिगुणहीलणाणढणासणा० -योगश० गा० ३७. ३. देवताबहुमानेन-श्लो० १६३ ।
गुरु-देवयाहि जायइ--योगश० गा० ६२. ४. शिवज्ञानं य आसाद्य--इत्यादि २६३-६५ शिवागमश्लोकाः
एतीए एस जुत्तो सम्म असुहस्स खवग मोणेओ । -योगश० गा० ८५. ५. कायपातादिभावेऽपि शुभालम्बनयोगतः । -श्लो० १७१ ।
तह कायपाइणो ण पुण चित्तमहिकिञ्च बोहिसत्त त्ति। -योगश०-गा० ८८. ६. आश्चर्यमावतस्त्वाशु कश्चित् तेनैव जन्मना । -श्लो० ४१३ । ___ जइ तब्भवेण जायइ जोगसमत्ती। योगश० गा० ९२. ७. श्लो० ३९२तः ९४ मृत्युज्ञानचिह्नानि ।
णाणं चागम-देवय-पइहा--सुमिणंधरादऽदिट्टीओ । -योगश० गा० ९७. सोपेगैतेषामुपयुल्लिखितानां प्रमाणानामनुसन्धानेनेदं ब्रह्मसिद्धान्तसमुच्चयप्रकरणं श्री. हरिभद्राचार्यसंसूत्रितमेवाऽऽभाति । अपि चात्र मुख्यवृत्त्या योगशतकप्रकरणेनैव सह तुलना विहिताऽस्ति । किञ्च यदि श्रीहरिभद्रसूरिपादप्रणोतयोगविन्दु-योगदृष्टिसमुच्चय-अटकप्रकरण-षोडशकप्रकरण-विंशिकाप्रकरणादिभिः सहास्य प्रकरणस्य तुलना विधीयेत तदाऽस्य प्रकरणस्य श्रीहरिभद्रकृतत्वनिश्चायकानि प्रभूतानि प्रमाणानि समुपलभ्येरनित्यत्र न कश्चिसन्देहलेश इति । प्रयतिष्यते किलैतदर्थ समयान्तरे पृथग्लेखरूपेण । ___ अत्रैतत्किल ज्ञापनीयमस्ति यदिदं ब्रह्मसिद्धान्तसमुच्चयाख्यं प्रकरणं द्वात्रिंशत्पत्रं ४२३ पयं यावच खण्डितापूर्णरूपेण सम्प्राप्तमस्ति तथाप्यस्य प्रकरणस्य प्रान्तभागवत्ति एवं पत्रं पत्रद्विकमेव वा विनष्टं सम्भाव्यते, नाधिकमिति ।
अपि चैतत्प्रकरणावलोकनेनैतदपि सम्भाव्यते यत्-श्रीमद्भिहरिभद्रसूरिचरणैः सर्वदर्शनसमन्वयसाधकान्यन्यान्यप्येताशि भिन्नभिन्नानि प्रकरणानि संसूत्रितान्यवश्यमेव भविष्यन्तीति ।
अतस्तावदिदं निवेद्यते -येन कच्छमांडवीस्थखरतरगच्छीयजैनभाण्डागारप्रतिपालकेन शाह मोहनलाल पोपटलाल महानुभावेन स्वोपज्ञटोकायुता योगशतकप्रकरणप्रतिरतिचिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org