SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ सेनाविसः संस्कृत साहित्यंचा [ लेखकः-मङ्गलदेव शास्त्री, एम० ए०, डी. किल० ( ऑक्सन० )] संस्कृतभाषाया अभ्युन्नतिः कथं भवेदित्येष विचारोऽद्यत्वे सर्वेषां संस्कृतभाषानुरागिणां मनःसु जागर्ति । नानादृष्टिभिरस्य प्रश्नस्य विषये विचारः कर्तुं शक्यते । परन्नात्र तदवसरः । केवलमेकामेव दृष्टिं पुरस्कृत्य किश्चिदत्र विचार्यते । सा चेयं यत्संस्कृतानुरागिभिः संस्कृतस्य पठनपाठनविषये सांप्रतिक्या विचारसंकीर्णतायाः परित्यागो विधेयः । अन्यथावनतिगर्ते पतिता जीर्णशीर्णशरीरा सा संस्कृतभाषास्मिन् सर्वथाननुकूले काले कथमपि कदाचिदपि भूयोऽभ्युन्नतिमुखी भविष्यतीति दुराशामात्रमेव । ___ भारतीयार्यधर्म इव संस्कृतभाषापि सर्वेषामप्यस्माकमार्यधर्मावलम्बिनां वरिष्ठः शेवधिर्गर्वस्य च विषयः । एको हि आर्यधर्मवृक्षोऽसंख्यशाखाप्रशाखारूपेणातिविस्तृतः, “ सहर्षशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि सर्वतः स्पृत्वात्पतिष्ठदशाङ्गुलम् ॥” इत्यादिश्रुतिभिर्गीयमानविराट्पुरुष इव, नानारूपैः पल्लवितः पुष्पितः फलितश्च साम्प्रतं समन्ताद् भारतभूमिमलंकरोति । एतदृष्ट्या हि सोऽपि " एकोऽश्वत्थः सनातनः" इत्येवं वर्णयितुं शक्यते । शैव-वैष्णव-बौद्ध-जैन-आर्य-सिक्खप्रभृतयः सर्वेऽपि भारतीयधर्मास्तस्यैव शाखाप्रशाखारूपाः । भारतीयसंस्कृतीत्यपरनामा एक एव जीवनरसस्तान् सर्वान् आप्याययति परिपोषयति च, तेषां सर्वेषामन्यधर्मेभ्यः किञ्चिदनिर्वचनीयं वैशिष्ट्यं च संपादयति । तस्य खलु भारतीयसंस्कृत्यपरनामधेयस्य भारतीयजीवनायामृतकल्पस्य जीवनरसस्य सर्वकामदुघा दोग्ध्रीवेयमस्माकं मातृरूपा देववाणी । अत एव तस्याः परिपोषणेनैव भारतीयसंस्कृतेः परिपुष्टिस्तदनुयायिनां सर्वेषामार्यधर्मावलम्बिनामस्माकं सर्वाङ्गीणा समुन्नतिश्च संभवति । कस्यैतदविदितं यत्प्रायः सर्वेषामण्यार्यधर्मावलम्बिनां धार्मिकं साहित्यं प्राचुर्येण संस्कृतभाषायामेव वर्तते । प्रायः सर्वेषामप्यार्यधर्माणामनुयायिभिराचारस्याः साहित्यभाण्डारस्य परिपूत्तिः प्राचीनकालादेव कृतास्ति । ततश्चास्याः समुन्नतिविषये सर्वैरप्यायधर्मानुयायिभिः प्रयत्नो विधेय इत्येवार्थादापद्यते । जैनधर्मस्थाचार्यवर्यैः संस्कृतसाहित्यस्याभिवृद्धये यत्कृतं न तत्कस्यापि तिरोहितम् । स्वसंप्रदायपरिपुष्टये यत्तेषां दर्शनादिविषयकमत्यद्भुतं विपुलं च वाङ्मयं तत्सहसैव तात्त्विक१४०:. [ श्री आत्मारामजी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy