SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ११ १४ स्याद्वादसिद्धान्तसुबोधनाय तत्राप्यनेकान्तमहोदयाय यन्मानसं सत्यविबोधनेऽस्ति कैलाशचन्द्रो जयतात्सूधीन्द्रः दिगम्बरे जैनकुले सुजातः यो जातितोऽभून्ननु चाग्रवालः प्रशान्तमूर्तिः सरलस्वभावः कैलाशचन्द्रो जयतात्सुधीन्द्रः १२ बुद्धिर्यदीया प्रतिभाति लोके सर्वत्र सार्थेविषयेऽनुभूते वाण्याःपटुत्वं प्रतिवस्तुगामि कैलाशचन्द्रो जयतात्सुधीन्द्रः चरित्रनिष्ठो ह्यमितप्रतिष्ठः सज्ज्ञानलाभे विहितप्रयत्नः कृतादरो भव्यजनोपदेशे कैलाशचन्द्रो जयतात्सुधीन्द्रः मनीषिमान्यः प्रवरैः प्रमाण्यः धन्यो हि विज्ञानधनैः प्रधन्यः नान्योऽस्ति यत्तः सुकृतां वदान्यः कैलाशचन्द्रो जयतात्सुधीन्द्रः विद्योपजीवी सुतरान्त्वमेव करोषि शास्त्राध्ययनं सदैव तं नम्यते प्रेमभरेण मूर्धा कैलाशचन्द्रो जयतात्सुधीन्द्रः १७ कैलाशचन्द्रस्य यथार्थरूपाः प्रमोदभावेन निरुपिता च भूयात्प्रशस्तिः प्रशमाय चैषा बुधप्रियाणां वरमानवानाम् अन्तिमशुभाभिसन्धिः १८ भूयात्सदैषा शुभमार्गदृष्टिः कृतिर्जनानां हितमुत्सुकानाम् करोतु कृत्यं सुखसाधनार्थम् निर्बाधरूपेण सदाशया वै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012048
Book TitleKailashchandra Shastri Abhinandan Granth
Original Sutra AuthorN/A
AuthorBabulal Jain
PublisherKailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP
Publication Year1980
Total Pages630
LanguageHindi, English, Sanskrit
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy