SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३० : मुनि श्रीहजारीमल स्मृति-ग्रन्थ : प्रथम अध्याय श्रीहजारीमल-मुनीनाम् 米米米米米器洲游非業務染殊荣获挑染挑染 गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमल मुनीनाम् । वन्द्यचरणानां वराणाम्, मरुधरामानसमणीनाम् । कीदृशी प्रतिभा प्रभाऽऽसीत्, कीदृशी प्रकृतिः कृतिर्वा । कीदृशी शान्तिश्च दान्तिः, कीदृशी भणितिः भतिर्वा । मन्त्रिपदवीमादधानाः, येऽभ्रमन् बहुजनहिताय । सदयहृदयाः महात्मानः, केवलं स्वान्तःसुखाय । मनसि मनसि विराजते, पुण्यस्मृतिः सद्गुणखनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्रीहजारीमल-मुनीनाम् । मोहममतामुक्तिकामाः, वयसि पथमे प्राव्रजन्ये । सिद्धजोरावरमलानाम्, शिष्यतामायन्नगण्ये। त्यागसीमानं विलंध्य, सत्य तत्त्वान्वेषणाय । ये समाजान्नाभिचेलुः, लोकविपदामनुभवाय । पोषकाः परमा अभूवन्, साधु मुनिजनजीवनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमल-मुनीनाम् । व्यथितहृदयाकृष्ट-केदारेषु भावान् यानभावान् । येऽवपन्नुपदेशकाले, प्रवचनान्प्रिप्रभावान् । भक्त-मानस-मन्दिरेषु, साधनास्निग्धां विदिग्धाम् । ज्ञानदीपालिं महान्तोऽज्वालयन्महसाभिमुग्धाम् । अतस्ते नेतृत्वमापुः, परिषदां पथदर्शिनीनाम् । गातुं गुणानद्य प्रवृत्ताः, श्री हजारीमलमुनीनाम् । दूरमेत्याऽपि स्वमातुः, नेदीयांसो येऽभिजाताः । एकमुत्संगं विमुच्य, ह्यनेकाङ्कश्रियो जाताः। व्यक्तिगतवात्सल्यविमुखा, प्राप्तवत्सलताब्धि धाराः । सीमिताशावंचिता अपि, ये समाशा हृदयहाराः । Jain ducation arermatyTA 1 o Private & Personale Vjainelibraly.org
SR No.012040
Book TitleHajarimalmuni Smruti Granth
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1965
Total Pages1066
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy