SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०६ स्वर्गस्थपूज्यपंडितप्रवरश्रीछबीलदास भ्रातुः आत्मा भवान्तरेऽपि जिनशासनं प्राप्य ज्ञान - साधनाबलेन स्व-परकल्याणभाग् भवेत्, इति शुभकामना मम अस्ति । श्रीमद्गूर्जरप्रान्ते भाभरनगरवास्तव्यजेकोरबाईकेशरी चंदगृहे १९७५ तमे विक्रम संवत्सरे पौष शुक्लत्रयोदश्यां भगवतो महावीरप्रसादात्पुत्रजन्म अभूत् । छबीलदासो नाम्ना प्रसिद्धीभूत: । पितृसन्निधौ भाभरमध्ये बाल्यकालं व्ययीकृत्य महेशानास्थित श्रीमद्यशोविजयजैन संस्कृत पाठशालायां नववर्षपर्य्यन्तं दत्तचित्तेन गुरुसेवां कुर्वन् नानाविधशास्त्राणि अभ्यस्य तत्रैव तानि शास्त्राणि अध्याप्य स्तंभनपुरे एकस्मिन्स्थाने पञ्चाशत्वर्षपर्यन्तमध्यापनं कृत्वा तत्संघे उच्चस्थानं प्राप्तवान् । अध्यापनकलायां एतेषां प्रवीणता अवर्णनीयासीत् । गूढपदानामपि अर्थानां सरलभाषायां पाठनमिति अस्यैव विलक्षणता । एतदतिरिक्ता अन्येऽपि केचन गुणविभूषिता आसन् (१) संघहितचिंतक (२) सत्यवक्ता, (३) कर्मभीरुता, (४) परोपकारपरायणता, (५) निर्भयता, (६) सहनशीलता, (७) निःस्पृहता, (८) श्रुतज्ञानविनियोगता, (९) कृतज्ञता, (१०) सात्त्विकता, (११) गांभीर्यतादि गुणैः सुवासिताः । कामना । | श्रद्धांजलिः । ॥ ज्ञानस्य फलं विरतिः ॥ ॥ सा विद्या या विमुक्तये ॥ जैनशासनमस्यज्ञानदानेन सेवितं । आगन्तुकानाम् अध्ययनाध्यापनस्यैव प्रेरणां कृतवान् । एतादृशो महामानवो विक्रमसंवत २०५८ तमे वर्षे स्वकीय भावनानुसारेणैव अध्यापयन् श्रावण शुक्ल त्रयोदश्यां पञ्चत्वं गतः । जैनशासने अस्य महानुभावस्य क्षतिः कथमपि न पूर्णीभविता । सद्गतस्यात्मा भवान्तरेऽपि जिनशासनं प्राप्य स्व- परात्मकल्याणे लीनो भवेदिरिति मदीया ॥ मंगलकामना || Jain Education International अहमदावाद मध्ये संवत २०५९ वर्षे अषाढमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथ्यां लिखितम् । જ્ઞાન પુષ્પાંજલિ तेषाम् गुणा : मयि प्रादुर्भूयासुः । यद्गुणकीर्तनं किमपि फलवदस्ति तर्हि सर्वे जीवाः कृत्स्नकर्मक्षयाः भवन्तु । - भवदीयचरणचञ्चरीकः जशवंतलालसुतः परेशः । For Private & Personal Use Only www.jainelibrary.org
SR No.012011
Book TitleGyan Pushpanjali Pandita Chhabildas Sanghavi Smrutiank
Original Sutra AuthorN/A
AuthorDhirajlal D Mehta, Vasantlal M Doshi
PublisherJain Dharm Prasaran Trust Surat
Publication Year2006
Total Pages188
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy