SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ VASUDHARA-DHARANT : 45 अथ खल्वायुष्मान् आनंदो हृष्टः तुष्ट: आत्तमना' प्रमुदितः प्रीतिसौमनस्यजातो भगवन्तमेतदवोचत् । को नाम भगवन् धर्मपर्यायः कश्चमां धारयामि । भगवानाह । तेन हि त्वमानंद सुचन्द्रगृहपतिपरिपृच्छेत्यपि धारय सर्वधनधान्यमित्यपि' धारय सर्वतथागतप्रशस्तो वसुधाराधारिणीकल्पं° इत्यपि धारय । इदमवोचद् भगवन्नात्तमना10 आयुष्मान् आनंदस्ते च भिक्षवस्ते च बोधिसत्वा सा सर्वावती11 पर्षद!2 सदेवमानुषासुरगन्धर्वाश्च13 लोको भगवतो भाषितमभ्यनंदन्निति । इत्यार्यवसुधाराधारिणी14 समाप्ता15 ॥ छ । छ । छ ।।16 (१) संवत् १६९५ वर्षे अश्वन वदि ७ भृगुवासरे ॥ छ । छ । छ॥ साहश्री पमनीयासुत साहश्री ५ इन्द्रजी सुंदर पटनार्थ परोपकारार्थम् ।। ॥ शुभं भवतु लेखकपाठकयोः॥ छ॥ श्रीः॥ 1 C तुष्टोदन। 2 BC आत्तमनाः । 3 C भगवान् । 4 A -पर्याय । 5 B कश्चैनां । C करयेना । ( Perhaps we should read कथञ्चेनं ) 6 C सुचन्द्रो गृहपतिं परिपुछेत्यपि। (N सुचंद्रस्य गृहपते: परिपृच्छेत्यपि ।) 7 N gives a better reading : सर्वधनधान्यहिरण्यसवर्णरत्ननिधानमित्यपि । 8 C सर्वतथागते प्रशास्तोरते । 9 C -धारिणी-1 10 C -त्तमानां। 11 A सर्ववती । BC सर्वावती। 12 BC परिषत् । 13 C मानुषासुरं गन्धर्वाश्च । 14 B -वसुधारास्तोत्रं । 15 B सम्पूर्ण । 16 After this B has the following : इयं वसुधारा धनदपुत्री यत्र गृहे धनादिकं तिष्ठति यच्च मुख्यं गृहं तत्र चतुर्दिक्षु गोमयलिप्तानि चत्वारि मण्डलानि कृत्वा तन्मध्ये पञ्चमण्डलं तस्मिन्नुपविष्ट उत्तराभिमुखो भूत्वा पवित्रगात्रो वसुधारा नाम धारिणी महानवद्यविद्या वाचयति तद् वाचकगृहपतिः सुमतिः सावधानतया एकदृष्टिरेकायमनास्तत्र प्रतिपादितस्वरस्यपस्य(?) द्वितयः स्वकरस्य(?) गोचराकति(3) अविच्छिन्नप्रभिन्नभोगयोगं च विधत्ते। इति वसुधारा नाम धारिणी महाशास्त्रं महासप्रभावं सर्वरोगदोषहरं धनधान्यकोशकोष्टागारकुटुम्बपुत्रपौत्रादिदारापरिवृतजनं करोति पठयमानं गुण्यमानं श्रूयमानं धार्यमाणं पुस्तकगतं सर्वविजयकरं भवति । इति वसुधाराकल्पं सम्पूर्णेति भद्रम् ॥ C has the following after इत्यार्यवसुधाराधारिणी समाप्ता । गुरोः क्षीरोदकवस्त्रं तथा रूप्पटंककं हस्ते दत्वा च वा[च्या] । आर्यवसुधारिणी संपूर्ण: । इयं वसुधारा धनदपुत्री यत्र गृहे धनादिकं तिष्ठति यश्च मुख्यगृहं तत्र गृहे चतुर्दिक्षु गोमयं लिप्तानि मण्डलानि क्रियन्ते तन्मध्ये पञ्चमं मण्डलं तत्रोपविष्ट उत्तराभिमुखो भूत्वा पवित्रगात्रो वसुधारा वाचयति वामपार्श्वगृहं उपविश्य सावधानः शृणोति भोमं(गं ?) च करोति सुतोत्पत्तिः । श्री वसुधारास्तोत्रं समाप्त । सो(शो ?)भापठनार्थम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy