________________
૩૦૬
શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણ મહોત્સવ ચર્થી अनंतप्रागल्भ्यः [स] जयति बली वीरधवल:
सशैलां सांभोषिं भुवमनिशमुद्ध मनसः । इमो मन्त्रि[९][प्रष्ठौ] कमठपति-कोलाधिपकला
मदभ्रां बिभ्राणो मुदमुदयिनी यस्य तनुतः ॥ ८॥ ...... नंदतु यावदिंदु-तपनौ सत्कर्मनिष्णाततां __ पुष्णातु प्रयतो जगन्निजगुणैः प्रीणातु [१०] [लोकं] पृणैः। श्रेयांसि श्रयतां यशांसि चिनुतामेनांसि विध्वंसतां
स्वामिन्य ...... विवासनां (१) च तनुतां श्रीवस्तुपालश्चिरं ॥९॥ दुःस्थत्वेन कदर्थ्यमानमखिलं भूलॊकमालोक[११]य
नाविर्भूतकृपारसेन सहसा व्यापारितश्चेतसा। पातालालिरागतः स्वयमयं श्रीवस्तुपालच्छला
त्तेजःपालमिषान्महीमनिमिषावासाच्च कर्णः पुनः ॥१०॥ तेन भ्रातृयु[१२]गेन या प्रतिपुरग्रामाध्वशैलस्थलं ___ वापीकूप निपानकाननसरः प्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्धता
तत्संख्यापि न बुध्यते यदि प[१३]रं तद्वेदिनी मेदिनी ॥११॥ क्षोणीपीठमियद्रजीकणमियत्पानीयबिन्दुः पतिः
सिंधूनामियदंगुलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीव[१४]स्तुपालस्य तां
धर्मस्थानपरंपरां गणयितुं शंके स एव क्षमः ॥१२॥ यावद्दिवींदुनार्को वासुकिना वसुमतीतले शेषः। इह सहचरितस्तावत्तेजःपालेन वस्तुपालोऽस्तु ॥ [१५] १३ ॥ श्रीविक्रमसंवत् १२८८ वर्षे पौष शुदि १५ शुक्रे प्रशस्तिनिष्पन्ना ॥ एतामलिखत् वाजतनुजन्मा ध्रुवकजयतासंहाख्यः । उदकिरदपि बकुलस्वामिसुतः पुरुषोत्तमो विमलां ॥
शिलालेखाङ्क-२ .
[१] ॥०॥ ॐ नमः श्रीसर्वज्ञाय ॥ देवः स वः शतमखप्रमुखामरौघक्लुप्तप्रथः प्रथमतीर्थपतिः पुनातु । धर्मक्रमोऽपि किल केवल एव लोके नीतिक्रमोऽपि यदुपक्रममेष भाति ॥१॥
श्रीविक्रमसंवत् १२८८ [२] वर्षे पौष सुदि १५ शुक्रे श्रीमदणहिलपुरवास्तव्यप्राग्वाटवंशालंकरण ठ० श्रीचण्डपात्मज ठ० श्रीचण्डप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीमाशाराजनन्दनेन ठ० श्रीकुमारदेवीकुक्षिसंभूतेन ठ० श्रीलणि[३]ग महं० श्रीमालदेवयोरनुजेन महं० श्रीसेजःपालाग्रजन्मना चौलुक्यकुलनभस्तलप्रकाशनकमार्तण्डमहाराजाधिराजश्रीभुवनप्रसाद देवसुतमहाराजश्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org