SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयंतत्त्वालौकसूत्राणि ४१. प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा । २४३ ४२. अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरागो वा । २४३ ४३. आगम निराकृत साध्यधर्मविशेषणो यथा जैनेन रजनिभोजनं भजनीयम् | २४४ ४४. लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः । २४५ ३९ ४५. स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् | २४६ ४६. अनभः प्सित साध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कशा दिरशाश्वतिक एवं वेति वदतः । २४८ ४७. असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः । २४९ ४८. यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः । २४९ ४९. स द्विविध उभयासिद्धोऽन्यतरासिद्धश्व । २४९ ५०. उभयासिद्धो यथा परिणामी शब्दश्चाक्षुषत्वात् । २४९ ५१. अन्यतरासिद्धो यथा अचेतनास्तरको विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात् । २५० ५२. साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः । २७५ ५३. यथा नित्य एवं पुरुषोऽनित्य एव वा प्रत्यभिज्ञानादिमत्त्वात् । २७५ । ५४. यस्यान्यथानुपपत्तिः संदिह्यते सोऽनैकान्तिकः । २८१ ५५. सद्वेधा -निर्णीत विपक्षवृत्तिकः संदिग्धविपक्षवृत्तिकश्च । २८१ ५६. निर्णीत विपक्षवृत्तिको यथा - नित्यः शब्दः प्रमेयत्वात् । २८२ ५७. सन्दिग्धविपक्षत्तिको यथा- विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् । २८३ ५८. साधर्म्येण दृष्टान्ताभासो नवप्रकारः । २९१ ५९. साध्यधर्मविकलः, साघनधर्मविकलः, उभयधर्मविकलः, संदिग्धसाध्यधर्मा, संदि - ग्घसाघनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयोsप्रदर्शितान्वयो विपरीतान्वयश्चेति । २९१ ६०. तत्रापौरुषेयः शब्दोऽमूर्तत्वाद् दुःखवदिति साध्यधर्मविकलः । २९२ ६९. तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः । २९२ ६२. कलशवदित्युभयधर्मविकलः । २९२ ६३. रागादिमानयं वक्तृत्वाद देवदत्तवदिति संदिग्धसाध्यधर्मा । २९३
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy