SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वा लोकसूत्राणि ३५ १३. सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति । १५२ १४. एकत्र वस्तुन्ये कै कधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाकूप्रयोगः सप्तभङ्गी । १५३ १५. तद्यथा – स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । १५५ १६. स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । १५६ १७. स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । १५८ १८. स्यादवक्तव्यमेवेति युगपाद्विधिनिषेधकल्पनया चतुर्थः । १५९ १९. स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । १६० २०.. स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । १६१ २१. स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युग - पद्विधिनिषेधकल्पनया च सप्तम इति । १६१ २२. विधिप्रधान एव ध्वनिरिति न साधु । १६२ २३. निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः । १६२ २४. अप्राधान्यन्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् । १६२ २५. क्वचित् कदाचित् कथञ्चित् प्राधान्येनाप्रतिपन्नस्य तस्याप्राधान्यानुपपत्तेः । १६२ २६. निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् । १६३ २७. क्रम, दुभयप्रधान एवायमित्यपि न साधीयः । १६३. २८. अस्य विधिनिषेधान्य तरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् । १६३ २९. युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न चतुरस्रम् । १६३ ३०. तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् । १६३ ३१. विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न कान्तः । १६४ ३२. निषेधात्मनः सह द्वयात्मनश्चार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रती यमानत्वात् । १६४ ३३. निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवा चक एवायमित्यप्यवधारणं न रमणीयम् । १६४ ३४. इतरथाऽपि संवेदनात् । १६४
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy