SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रमाण तत्त्वालोकसूत्राणि द्वितीयः परिच्छेदः : [प्रथमो भागः ] .. १. तद् द्विभेदं प्रत्यक्षं च परोक्षं च । १२३ २. स्पष्टं प्रत्यक्षम् । १३३ . ३. अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् । १३३ ४. तद् द्विप्रकारम्-सांव्यवहारिक पारमार्थिकं च । १३३ ५. तत्राद्यं द्विविधमिन्द्रियनिबन्धमनिन्द्रियनिबन्धनं च । १३४ ६. एतद् द्वितयमवग्रहेहावायधारणाभेदादेकशश्चतुर्विकल्पकम् । १६० ७. विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तर. ___ सामान्याकारविशिष्टवस्तुग्रहणमवग्रहः । १६० ८. अवगृहीतार्थविशेषाऽऽकाङ्क्षणमीहा । १६१ ९. ईहितविशेषनिर्णयोऽवायः । १६१ १०. स एव दृढतमावस्थापन्नो धारणा । १६१ .. . .. ११. संशयपूर्वकत्वादीहायाः संशयाद् भेदः । १६१ . . ... . १२. कथश्चिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः । १६२ .. १३. आसामस्त्येनाऽप्युत्पद्यमानत्वेनाऽसंकीर्णस्वभावतयाऽनुभूयमानत्वात् , अपूर्वापूर्व वस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते । १६२ १४. क्रमोऽप्यमीषामयमेव, तथैव संवेदनात्, एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्य त्वाच्च । १६४ १५. अन्यथा प्रमेयानवगतिप्रसङ्गः। १६४ १६. न खल्वदृष्टमगृह्यते, न चाऽनवगृहीतं संदिह्यते, न चाऽसंदिग्धमीह्यते, न चानीहितमवेयते, नाप्यनवेतं धार्यते । १६४ . . १७. क्वचित् क्रमस्यानुपलक्षणमेषामाशूत्पादात् , उत्पलपत्रशतव्यतिभेदक्रमवत् । १६४ १८. पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् । १६५ १९. तद् विकलं सकलं च । १६६ .. २०. तत्र विकलमवधिमनःपर्यायज्ञानरूपतयां द्वेधा । १६६ . २१. अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्यय रूपिद्रव्यगोचरमवधिज्ञानम् । १६६
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy