SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १९० सामान्यनिरूपणम् । [ ५. ४. तया । प्राचि पक्षे इत्यादि विषयाद् ज्ञानं जायते । तच्च ज्ञानं तस्य विषयस्य ग्राहकम् | ततो वासना चेत् तथाभूतप्रत्ययविषयभूता सत्युत्पादयति, ततस्तेन प्रत्ययेन सा ग्राह्या । तथा च सामान्यमेव नामान्तरेणोक्तं भवति । सकलविशेषानुयायिनी इति यो यो अनुगताकारः प्रत्ययविषयः स सकल विशेषानुयायी यथा सामान्यम् । परिच्छेद्यस्वभावेति विषयो हि परिच्छेद्यस्तत्स्वभावा । सदृशप्रत्ययजनने इति सदृशप्रत्ययजनने सति । अस्येति सदृशप्रत्ययस्य । अपर इति अन्यव्यावृत्तिरूपः । तद्विषय इति भस्य सदृशप्रत्ययस्य विषयः । (टि०) तथाभूतमिति नान्तर्बहीरूपम् । तेनेति अन्यव्यावृत्तिस्वरूपेण । तत्रेति अन्तर्वहिर्वा तथाभूतेति गौरिति व्यक्तिप्रत्ययः । अयमिति प्रत्ययः । तथाभूतमिति गौगरित्याकारम् ॥ विषय इति सामान्यलक्षणः अस्येति सदृशप्रत्ययस्य । अपर इति अन्यव्यावृत्तिलक्षणः । तद्विषय इति सदृशप्रत्ययस्य विषय. तत्संभवेति अन्यव्यावृत्तिसंभवप्राप्तेः । तेष्विति कुरङ्गतुरङ्गादिषु । १७ ननु यया प्रत्यासत्या केचन भावाः स्वयं सदृशपरिणामं विभ्रति, तयैव स्वयमतदात्मका अपि सन्तस्तथा किं नावभासेरन् इति चेत् तदप्यनुचितम् । चेतनेतरभेदाभावप्रसङ्गात् । ययैव हि प्रत्यासत्त्या चेतनेतरस्वभावान् भावाः स्वीकुर्वन्ति, तयैव स्वयमतदात्मका अपि सन्तस्तथेो किं नावभासेरन् - इत्यपि ब्रुवाणस्य ब्रह्माद्वैतवादिनो न वक्त्रं वक्रीभवेत् । चेतनेतरव्यतिरिक्तस्य ब्रह्मणोऽसत्त्वात् कथमस्य तथाऽवभासनम् ? - इत्यन्यत्रापि तुल्यम् । न खलु सदृशपरिणामशून्यं स्वल - क्षणमप्यस्ति यत् तथाऽवभासेत ! १८ ननु स्वलक्षणस्य विसदृशाकारात्मनः सदृशपरिणामात्मकत्वं विरुध्यते । नैवम् । ज्ञानस्य चित्राकारतावत्, विकल्पेतराकारर्तावच्चै कस्योभयात्मकत्वाविरोधात् । ततो व्यावृत्तप्रत्यय हेतुविसदृशाकारतावद् वस्तुनः सदृशपरिणामात्मकत्वमप्यनुयायिप्रत्ययहेतुः स्वीकार्यम् ||४|| 89 બૌદ્ધ—જે પ્રત્યાસત્તિ સ'મધથી કેટલાક પદાર્થા સ્વય' સદેશ પરિણામને ધારણ કરે છે, તે જ પ્રત્યાસત્તિથી સ્વયં અતદાત્મક હાવા છતાં એટલે કે સદશપરિણામાત્મક ન હેાવા છતાં તેવા કેમ ન જણાય ? જૈનતે ઉચિત નથી. કારણકે—એમ માનવા જતાં ચેતન અને જડના ભેદ પણ નહિ રહે. કારણકે-જે પ્રત્યાસત્તિથી પદાર્થા ચેતનેતર સ્વભાવને ધારણ કરે છે, તે જ પ્રત્યાસત્તિથી પદાર્થા સ્વય' અતદાત્મક હોવા છતાં એટલે કે ચેતનેતર ન હાવા છતાં કેમ તેવા ન જણાય ? – એવું ખેલનાર પ્રહ્લાદ્વૈતવાદીનું મુખ કંઈ વાજું થતું નથી. મૌદ્ધ——ચેતન અને જડથી ભિન્ન એવું બ્રહ્મ છે જ નહિ, તે તેના તે પ્રકારે અવભાસ કઈ રીતે થાય ? १ तदनु- मु । २ तथाऽवभा - पञ्जिकापाठः ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy