SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ॥ योगविशिका॥ . .: [संस्कृतछाया ] मोक्षेण योजनाद् योगः सर्वोऽपि धर्मव्यापारः । परिशुद्धो विज्ञेयः स्थानादिगतो विशेषेण ॥१॥ स्थानोार्थालम्बनरहितस्तन्त्रे पञ्चधैषः । द्विकमत्र कर्मयोगस्तथा त्रिकं ज्ञानयोगस्तु ॥२॥ देशे सर्वे च तथा नियमेनैष चरित्रिणो भवति । ..... इतरस्य बीजमात्रमित एव केचिदिच्छन्ति ॥३॥ एकैकश्च चतुर्धाऽत्र- पुनस्तत्त्वतो ज्ञातव्यः । इच्छाप्रवृत्तिस्थिरसिद्धिभेदतः समयनीत्या ॥४॥ तयुक्तकथाप्रीत्या संगता विपरिणामिनीच्छा । सर्वत्रोपशमसारं तत्पालनमिति प्रवृत्तिस्तु ॥५॥ तथैवैतद्बाधकचिन्तारहितं स्थिरत्वं ज्ञेयम् । सर्वं परार्थसाधकरूपं पुनर्भवति सिद्धिरिति ॥६॥ एते च चित्ररूपास्तथाक्षयोपशमयोगतो भवन्ति । तस्य तु श्रद्धाप्रीत्यादियोगतो भव्यसत्त्वानाम् ॥७॥ अनुकम्पा निर्वेदः संवेगो भवति तथा च प्रशम इति । एतेषामनुभावा इच्छादीनां यथासंख्यम् ॥८॥ एवं स्थिते तत्त्वे ज्ञातेन तुः योजनेयं प्रकटा । चैत्यवन्दनेन ज्ञेया केवलं तत्त्वज्ञेन सम्यक् ॥९॥ अर्हचैत्यानां करोम्युत्सर्गमेवमादि । श्रद्धायुक्तस्य तथा भवति यथार्थ पदज्ञानम् ॥१०॥ एतच्चालिम्बनयोगवतः प्रायोऽविपरीतं तु । इतरेषां स्थानादिषु यत्नपराणां परं श्रेयः ॥११॥ 16
SR No.011128
Book TitleYogadrstisamuccaya and Yogavinshika
Original Sutra AuthorN/A
AuthorK K Dixit
PublisherL D Indology Ahmedabad
Publication Year
Total Pages139
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy